यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वा च सप्ताब्धियुतेह तिष्ठेत् तावत्स गन्धर्वगणैर् अशेषैः सम्पूज्यते नारद नाकपृष्ठे
ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात्कुलशीलयुक्तः सृष्टेर्मुखे ऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः
इति पठति शृणोति वाथ भक्त्या विधिमखिलं रविसंक्रमस्य पुण्यम् मतिमपि च ददाति सो ऽपि देवैर् अमरपतेर्भवने प्रपूज्यते च
शृणु नारद वक्ष्यामि विष्णोर्व्रतमनुत्तमम् विभूतिद्वादशी नाम सर्वदेवनमस्कृतम्
कार्त्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने आषाढे वा दशम्यां तु शुक्लायां लघुभुङ्नरः कृत्वा सायन्तनीं संध्यां गृह्णीयान्नियमं बुधः
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो
तदविघ्नेन मे यातु सफलं स्याच्च केशव नमो नारायणायेति वाच्यं च स्वपता निशि
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः
विभूतये नमः पादाव् अशोकाय च जानुनी नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम्
कन्दर्पाय नमो मेढ्रम् आदित्याय नमः करौ दामोदरायेत्युदरं वासुदेवाय च स्तनौ
माधवायेत्युरो विष्णोः कण्ठम् उत्कण्ठिने नमः श्रीधराय मुखं केशान् केशवायेति नारद
पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै स्वनाम्ना शङ्खचक्रासिगदाजलजपाणये शिरः सर्वात्मने ब्रह्मन् नम इत्यभिपूजयेत्
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः उदकुम्भसमायुक्तम् अग्रतः स्थापयेद्बुधः
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् रात्रौ जागरणं कुर्याद् इतिहासकथादिना
प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत्
यथा न मुच्यसे देव सदा सर्वविभूतिभिः तथा मामुद्धराशेषदुःखसंसारकर्दमात्
दशावताररूपाणि प्रतिमासं क्रमान्मुने दत्तात्रेयं तथा व्यासम् उत्पलेन समन्वितम् दद्यादेवं समा यावत् पाषण्डानभिवर्जयेत्
समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः संवत्सरान्ते लवणपर्वतेन समन्विताम् शय्यां दद्यान्मुनिश्रेष्ठ गुरवे धेनुसंयुताम्
ग्रामं च शक्तिमान्दद्यात् क्षेत्रं वा भवनान्वितम् गुरुं सम्पूज्य विधिवद् वस्त्रालंकारभूषणैः
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् तर्पयेद् वस्त्रगोदानै रत्नौघधनसंचयैः अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत्
यश्चाप्यतीव निःस्वः स्याद् भक्तिमान्माधवं प्रति पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम्
अनेन विधिना यस्तु विभूतिद्वादशीव्रतम् कुर्यात्पापविनिर्मुक्तः पितॄणां तारयेच्छतम्
जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् न च व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि
यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् तावत्स्वर्गे वसेद्ब्रह्मन् भूपतिश्च पुनर्भवेत्
पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः नाम्ना लोकेषु विख्यातस् तेजसा सूर्यसंनिभः
तपसा तस्य तुष्टेन चतुर्वक्त्रेण नारद कमलं काञ्चनं दत्तं यथाकामगमं मुने
लोकैः समस्तैर् नगरवासिभिः सहितो नृपः द्वीपानि सुरलोकं च यथेष्टं व्यचरत्तदा
कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः लोके च पूजितं यस्मात् पुष्करद्वीपमुच्यते
देवेन ब्रह्मणा दत्तं यानमस्य यतो ऽम्बुजम् पुष्पवाहनमित्याहुस् तस्मात्तं देवदानवाः
नागम्यमस्यास्ति जगत्त्रये ऽपि ब्रह्माम्बुजस्थस्य तपो ऽनुभावात् पत्नी च तस्याप्रतिमा मुनीन्द्र नारीसहस्रैरभितो ऽभिनन्द्या नाम्ना च लावण्यवती बभूव सा पार्वतीवेष्टतमा भवस्य