रविसंक्रमणे भूमौ चन्दनेनाष्टपत्त्रकम् पद्मं सकर्णिकं कुर्यात् तस्मिन्नावाहयेद्रविम्
कर्णिकायां न्यसेत्सूर्यम् आदित्यं पूर्वतस्ततः नम उष्णार्चिषे याम्ये नमो ऋङ्मण्डलाय च
नमः सवित्रे नैरृत्ये वारुणे तपनं पुनः वायव्ये तु भगं न्यस्य पुनः पुनरथार्चयेत्
मार्तण्डमुत्तरे विष्णुम् ईशाने विन्यसेत्सदा गन्धमाल्यफलैर्भक्ष्यैः स्थण्डिले पूजयेत्ततः
द्विजाय सोदकुम्भं च घृतपात्रं हिरण्मयम् कमलं च यथाशक्त्या कारयित्वा निवेदयेत्
चन्दनोदकपुष्पैश्च देवायार्घ्यं न्यसेद्भुवि विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे नमो ऽनन्त नमो धात्रे ऋक्सामयजुषां पते
अनेन विधिना सर्वं मासि मासि समाचरेत् वत्सरान्ते ऽथवा कुर्यात् सर्वं द्वादशधा नरः
संवत्सरान्ते घृतपायसेन संतर्प्य वह्निं द्विजपुंगवांश्च कुम्भान्पुनर्द्वादश धेनुयुक्तान् सरत्नहैरण्मयपद्मयुक्तान्
पयस्विनीः शीलवतीश्च दद्याद् धर्मैः शृङ्गैः रौप्यखुरैश्च युक्ताः गावो ऽष्ट वा सप्त सकांस्यदोहा माल्याम्बरा वा चतुरो ऽप्यशक्तः दौर्गत्ययुक्तः कपिलामथैकां निवेदयेद्ब्राह्मणपुंगवाय
हैमीं च दद्यात्पृथिवीं सशेषाम् आकार्य रूप्यामथ वा च ताम्रीम् पैष्टीमशक्तः प्रतिमां विधाय सौवर्णसूर्येण समं प्रदद्यात् न वित्तशाठ्यं पुरुषो ऽत्र कुर्यात् कुर्वन्नधो याति न संशयो ऽत्र
यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वा च सप्ताब्धियुतेह तिष्ठेत् तावत्स गन्धर्वगणैर् अशेषैः सम्पूज्यते नारद नाकपृष्ठे
ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात्कुलशीलयुक्तः सृष्टेर्मुखे ऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः
इति पठति शृणोति वाथ भक्त्या विधिमखिलं रविसंक्रमस्य पुण्यम् मतिमपि च ददाति सो ऽपि देवैर् अमरपतेर्भवने प्रपूज्यते च
शृणु नारद वक्ष्यामि विष्णोर्व्रतमनुत्तमम् विभूतिद्वादशी नाम सर्वदेवनमस्कृतम्
कार्त्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने आषाढे वा दशम्यां तु शुक्लायां लघुभुङ्नरः कृत्वा सायन्तनीं संध्यां गृह्णीयान्नियमं बुधः
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो
तदविघ्नेन मे यातु सफलं स्याच्च केशव नमो नारायणायेति वाच्यं च स्वपता निशि
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः
विभूतये नमः पादाव् अशोकाय च जानुनी नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम्
कन्दर्पाय नमो मेढ्रम् आदित्याय नमः करौ दामोदरायेत्युदरं वासुदेवाय च स्तनौ
माधवायेत्युरो विष्णोः कण्ठम् उत्कण्ठिने नमः श्रीधराय मुखं केशान् केशवायेति नारद
पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै स्वनाम्ना शङ्खचक्रासिगदाजलजपाणये शिरः सर्वात्मने ब्रह्मन् नम इत्यभिपूजयेत्
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः उदकुम्भसमायुक्तम् अग्रतः स्थापयेद्बुधः
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् रात्रौ जागरणं कुर्याद् इतिहासकथादिना
प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत्
यथा न मुच्यसे देव सदा सर्वविभूतिभिः तथा मामुद्धराशेषदुःखसंसारकर्दमात्
दशावताररूपाणि प्रतिमासं क्रमान्मुने दत्तात्रेयं तथा व्यासम् उत्पलेन समन्वितम् दद्यादेवं समा यावत् पाषण्डानभिवर्जयेत्
समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः संवत्सरान्ते लवणपर्वतेन समन्विताम् शय्यां दद्यान्मुनिश्रेष्ठ गुरवे धेनुसंयुताम्
ग्रामं च शक्तिमान्दद्यात् क्षेत्रं वा भवनान्वितम् गुरुं सम्पूज्य विधिवद् वस्त्रालंकारभूषणैः
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् तर्पयेद् वस्त्रगोदानै रत्नौघधनसंचयैः अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत्