अर्घ्यं दत्त्वा विसृजाथ निशि तैलविवर्जितम् भुञ्जीत वत्सरान्ते तु काञ्चनं कमलोत्तमम् पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा
सुवर्णशृङ्गीं कपिलां महार्घ्यां रौप्यैः खुरैः कांस्यदोहां सवत्साम् पूर्णे गुडस्योपरि ताम्रपात्रे निधाय पद्मं पुरुषं च दद्यात्
सम्पूज्य रक्ताम्बरमाल्यधूपैर् द्विजं च रक्तैरथ हेमशृङ्गैः संकल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतदानकाय अव्यङ्गरूपाय जितेन्द्रियाय कुटुम्बिने देयमनुद्धताय
नमो नमः पापविनाशनाय विश्वात्मने सप्ततुरंगमाय सामर्ग्यजुर्धामनिधे विधात्रे भवाब्धिपोताय जगत्सवित्रे
इत्यनेन विधिना समाचरेद् अब्दभेकमिह यस्तु मानवः सो ऽधिरोहति विनष्टकल्मषः सूर्यधाम धुतचामरावलिः
धर्मसंक्षयमवाप्य भूपतिः शोकदुःखभयरोगवर्जितः द्वीपसप्तकपतिः पुनः पुनर् वर्ममूर्तिर् अमितौजसा युतः
या च भर्तृगुरुदेवतत्परा वेदमूर्तिदिननक्तमाचरेत् सापि लोकममरेशवन्दिता याति नारद रवेर्न संशयः
यः पठेदपि शृणोति मानवः पठ्यमानमथ वानुमोदते सो ऽपि शक्रभुवनस्थितो ऽमरैः पूज्यते वसति चाक्षयं दिवि
अथान्यदपि वक्ष्यामि संक्रान्त्युद्यापने फलम् यदक्षयं परे लोके सर्वकामफलप्रदम्
अयने विषुवे वापि संक्रान्तिव्रतमाचरेत् पूर्वेद्युरेकभक्तेन दन्तधावनपूर्वकम् संक्रान्तिवासरे प्रातस् तिलैः स्नानं विधीयते
रविसंक्रमणे भूमौ चन्दनेनाष्टपत्त्रकम् पद्मं सकर्णिकं कुर्यात् तस्मिन्नावाहयेद्रविम्
कर्णिकायां न्यसेत्सूर्यम् आदित्यं पूर्वतस्ततः नम उष्णार्चिषे याम्ये नमो ऋङ्मण्डलाय च
नमः सवित्रे नैरृत्ये वारुणे तपनं पुनः वायव्ये तु भगं न्यस्य पुनः पुनरथार्चयेत्
मार्तण्डमुत्तरे विष्णुम् ईशाने विन्यसेत्सदा गन्धमाल्यफलैर्भक्ष्यैः स्थण्डिले पूजयेत्ततः
द्विजाय सोदकुम्भं च घृतपात्रं हिरण्मयम् कमलं च यथाशक्त्या कारयित्वा निवेदयेत्
चन्दनोदकपुष्पैश्च देवायार्घ्यं न्यसेद्भुवि विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे नमो ऽनन्त नमो धात्रे ऋक्सामयजुषां पते
अनेन विधिना सर्वं मासि मासि समाचरेत् वत्सरान्ते ऽथवा कुर्यात् सर्वं द्वादशधा नरः
संवत्सरान्ते घृतपायसेन संतर्प्य वह्निं द्विजपुंगवांश्च कुम्भान्पुनर्द्वादश धेनुयुक्तान् सरत्नहैरण्मयपद्मयुक्तान्
पयस्विनीः शीलवतीश्च दद्याद् धर्मैः शृङ्गैः रौप्यखुरैश्च युक्ताः गावो ऽष्ट वा सप्त सकांस्यदोहा माल्याम्बरा वा चतुरो ऽप्यशक्तः दौर्गत्ययुक्तः कपिलामथैकां निवेदयेद्ब्राह्मणपुंगवाय
हैमीं च दद्यात्पृथिवीं सशेषाम् आकार्य रूप्यामथ वा च ताम्रीम् पैष्टीमशक्तः प्रतिमां विधाय सौवर्णसूर्येण समं प्रदद्यात् न वित्तशाठ्यं पुरुषो ऽत्र कुर्यात् कुर्वन्नधो याति न संशयो ऽत्र
यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वा च सप्ताब्धियुतेह तिष्ठेत् तावत्स गन्धर्वगणैर् अशेषैः सम्पूज्यते नारद नाकपृष्ठे
ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात्कुलशीलयुक्तः सृष्टेर्मुखे ऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः
इति पठति शृणोति वाथ भक्त्या विधिमखिलं रविसंक्रमस्य पुण्यम् मतिमपि च ददाति सो ऽपि देवैर् अमरपतेर्भवने प्रपूज्यते च
शृणु नारद वक्ष्यामि विष्णोर्व्रतमनुत्तमम् विभूतिद्वादशी नाम सर्वदेवनमस्कृतम्
कार्त्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने आषाढे वा दशम्यां तु शुक्लायां लघुभुङ्नरः कृत्वा सायन्तनीं संध्यां गृह्णीयान्नियमं बुधः
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो
तदविघ्नेन मे यातु सफलं स्याच्च केशव नमो नारायणायेति वाच्यं च स्वपता निशि
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः
विभूतये नमः पादाव् अशोकाय च जानुनी नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम्
कन्दर्पाय नमो मेढ्रम् आदित्याय नमः करौ दामोदरायेत्युदरं वासुदेवाय च स्तनौ