औदुम्बरं नारिकेलं द्राक्षाथ बृहतीद्वयम् रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश
ताम्रं तालफलं कुर्याद् अगस्तिफलमेव च पिण्डारकाश्मर्यफलं तथा सूरणकन्दकम्
रक्तालुकाकन्दकं च कनकाह्वं च चिर्भिटम् चित्रवल्लीफलं तद्वत् कूटशाल्मलिजं फलम्
आम्रनिष्पावमधुकवटमुद्गपटोलकम् ताम्राणि षोडशैतानि कारयेच्छक्तितो नरः
उदकुम्भद्वयं कुर्याद् धान्योपरि सवस्त्रकम् ततश्च कारयेच्छय्यां यथोपरि सुवाससी
भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम् धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने सपत्नीकाय सम्पूज्य पुण्ये ऽह्नि विनिवेदयेत्
यथा फलेषु सर्वेषु वसन्त्यमरकोटयः तथा सर्वफलत्यागव्रताद्भक्तिः शिवे ऽस्तु मे
यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ
यथा फलान्यनन्तानि शिवभक्तेषु सर्वदा तथानन्तफलावाप्तिर् अस्तु जन्मनि जन्मनि
यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान् तथा ममास्तु विश्वात्मा शंकरः शंकरः सदा
इति दत्त्वा च तत्सर्वम् अलंकृत्य च भूषणैः शक्तिश्चेच्छयनं दद्यात् सर्वोपस्करसंयुतम्
अशक्तस्तु फलान्येव यथोक्तानि विधानतः तथोदकुम्भसंयुक्तौ शिवधर्मौ च काञ्चनौ
विप्राय दत्त्वा भुञ्जीत वाग्यतस्तैलवर्जितम् अन्यान्यपि यथाशक्त्या भोजयेच्छक्तितो द्विजान्
एतद्भागवतानां तु सौरवैष्णवयोगिनाम् शुभं सर्वफलत्यागव्रतं वेदविदो विदुः
नारीभिश्च यथाशक्त्या कर्तव्यं द्विजपुंगव एतस्मान्नापरं किंचिद् इह लोके परत्र च व्रतमस्ति मुनिश्रेष्ठ यदनन्तफलप्रदम्
सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम तावद्युगसहस्राणि रुद्रलोके महीयते
एतत्समस्तकलुषापहरं जनानाम् आजीवनाय मनुजेषु च सर्वदा स्यात् जन्मान्तरेष्वपि न पुत्रवियोगदुःखम् आप्नोति धाम च पुरंदरलोकजुष्टम्
यो वा शृणोति पुरुषो ऽल्पधनः पठेद्वा देवालयेषु भवनेषु च धार्मिकाणाम् पापैर्वियुक्तवपुरत्र पुरं मुरारेर् आनन्दकृत्पदमुपैति मुनीन्द्र सो ऽपि
यदारोग्यकरं पुंसां यदनन्तफलप्रदम् यच्छान्तये च मर्त्यानां वद नन्दीश तद्व्रतम्
यत्तद्विश्वात्मनो धाम परं ब्रह्म सनातनम् सूर्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम्
तदाराध्य पुमान्विप्र प्राप्नोति कुशलं सदा तस्मादादित्यवारेण सदा नक्ताशनो भवेत्
यदा हस्तेन संयुक्तम् आदित्यस्य च वासरम् तदा शनिदिने कुर्याद् एकभक्तं विमत्सरः
नक्तमादित्यवारेण भोजयित्वा द्विजोत्तमान् पत्त्रैर्द्वादशसंयुक्तं रक्तचन्दनपङ्कजम्
विलिख्य विन्यसेत्सूर्यं नमस्कारेण पूर्वतः दिवाकरं तथाग्नेये विवस्वन्तमतः परम्
भगं तु नैरृते देवं वरुणं पश्चिमे दले महेन्द्रमनिले तद्वद् आदित्यं च तथोत्तरे
शान्तमीशानभागे तु नमस्कारेण विन्यसेत् कर्णिकापूर्वपत्त्रे तु सूर्यस्य तुरगान्न्यसेत्
दक्षिणे ऽर्यमनामानं मार्तण्डं पश्चिमे दले उत्तरे तु रविं देवं कर्णिकायां च भास्करम्
रक्तपुष्पोदकेनार्घ्यं सतिलारुणचन्दनम् तस्मिन्पद्मे ततो दद्याद् इमं मन्त्रमुदीरयेत्
कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः यस्मादग्नीन्द्ररूपस्त्वम् अतः पाहि दिवाकर
अग्निम् ईडे नमस्तुभ्यम् इषेत्वोर्जे च भास्कर अग्न आयाहि वरद नमस्ते ज्योतिषां पते