पुनश्च कार्त्तिके मासे प्राप्ते संतर्पयेद्द्विजान् अन्नैर् नानाविधैर् भक्ष्यैर् वस्त्रमाल्यविभूषणैः
कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः उमामहेश्वरं हैमं वृषभं च गवा सह
मुक्ताफलाष्टकयुतं सितनेत्रपटावृताम् सर्वोपस्करसंयुक्तां शय्यां दद्यात् सकुम्भकाम्
ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम् स्थाप्य विप्राय शान्ताय वेदव्रतपराय च
ज्येष्ठसामविदे देयं नवकव्रतिने क्वचित् गुणज्ञे श्रोत्रिये दद्याद् आचार्ये तत्त्ववेदिनि
अव्यङ्गाङ्गाय सौम्याय सदा कल्पाणकारिणे सपत्नीकाय सम्पूज्य वस्त्रमाल्यविभूषणैः
गुरौ सति गुरोर्देयं तदभावे द्विजातये न वित्तशाठ्यं कुर्वीत कुर्वन्दोषात्पतत्यधः
अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम् सो ऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः
ब्रह्महत्यादिकं किंचिद् यदत्रामुत्र वा कृतम् पितृभिर्भ्रातृभिर्वापि तत्सर्वं नाशमाप्नुयात्
दीर्घायुरारोग्यकुलान्नवृद्धिर् अत्राक्षयामुत्र चतुर्भुजत्वम् गणाधिपत्यं दिवि कल्पकोटिशतान्युषित्वा पदमेति शम्भोः
न बृहस्पतिरप्यनन्तमस्याः फलमिन्दो न पितामहो ऽपि वक्तुम् न च सिद्धगणो ऽप्यलं न चाहं यदि जिह्वायुतकोटयो ऽपि वक्त्रे
भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम् इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा
या वाथ नारी कुरुते ऽतिभक्त्या भर्तारमापृच्छ्य सुतान्गुरून्वा सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेः
फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद यदक्षयं परं लोके सर्वकामफलप्रदम्
मार्गशीर्षे शुभे मासि तृतीयायां मुने व्रतम् द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम्
अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम सदक्षिणं पायसेन भोजयेच्छक्तितो द्विजान्
अष्टादशानां धान्यानाम् अन्यच्च फलमूलकम् वर्जयेदब्दमेकं तु ऋते औषधकारणम् सवृषं काञ्चनं रुद्रं धर्मराजं च कारयेत्
कूष्माण्डं मातुलिङ्गं च वार्ताकं पनसं तथा आम्रातकं कपित्थानि कलिङ्गमथ वालुकम्
श्रीफलाश्वत्थबदरं जम्बीरं कदलीफलम् काश्मरं दाडिमं शक्त्या कालधौतानि षोडश
मूलकामलकं जम्बूतिन्तिडीकरमर्दकम् कङ्कोलैलाकतुण्डीरकरीरकुटजं शमी
औदुम्बरं नारिकेलं द्राक्षाथ बृहतीद्वयम् रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश
ताम्रं तालफलं कुर्याद् अगस्तिफलमेव च पिण्डारकाश्मर्यफलं तथा सूरणकन्दकम्
रक्तालुकाकन्दकं च कनकाह्वं च चिर्भिटम् चित्रवल्लीफलं तद्वत् कूटशाल्मलिजं फलम्
आम्रनिष्पावमधुकवटमुद्गपटोलकम् ताम्राणि षोडशैतानि कारयेच्छक्तितो नरः
उदकुम्भद्वयं कुर्याद् धान्योपरि सवस्त्रकम् ततश्च कारयेच्छय्यां यथोपरि सुवाससी
भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम् धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने सपत्नीकाय सम्पूज्य पुण्ये ऽह्नि विनिवेदयेत्
यथा फलेषु सर्वेषु वसन्त्यमरकोटयः तथा सर्वफलत्यागव्रताद्भक्तिः शिवे ऽस्तु मे
यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ
यथा फलान्यनन्तानि शिवभक्तेषु सर्वदा तथानन्तफलावाप्तिर् अस्तु जन्मनि जन्मनि
यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान् तथा ममास्तु विश्वात्मा शंकरः शंकरः सदा