प्रीयतां देवदेवो ऽत्र सद्योजातः पिनाकधृक् ततो विप्रान्समाहूय तर्पयेद्भक्तितः शुभान् पृषदाज्यं च संप्राश्य स्वपेद्भूमावुदङ्मुखः
पञ्चदश्यां च सम्पूज्य विप्रान्भुञ्जीत वाग्यतः तद्वत्कृष्णचतुर्दश्याम् एतत्सर्वं समाचरेत्
चतुर्दशीषु सर्वासु कुर्यात्पूर्ववदर्चनम् ये तु मासे विशेषाः स्युस् तान्निबोध क्रमादिह
मार्गशीर्षादिमासेषु क्रमादेतदुदीरयेत् शंकराय नमस्ते ऽस्तु नमस्ते करवीरक
त्र्यम्बकाय नमस्ते ऽस्तु महेश्वरमतः परम् नमस्ते ऽस्तु महादेव स्थाणवे च ततः परम्
नमः पशुपते नाथ नमस्ते शम्भवे पुनः नमस्ते परमानन्द नमः सोमार्धधारिणे
नमो भीमाय इत्येवं त्वामहं शरणं गतः गोमूत्रं गोमूयं क्षीरं दधि सर्पिः कुशोदकम्
पञ्चगव्यं ततो बिल्वं कर्पूरं चागुरुं यवाः तिलाः कृष्णाश्च विधिवत् प्राशनं क्रमशः स्मृतम् प्रतिमासं चतुर्दश्योर् एकैकं प्राशनं स्मृतम्
मन्दारमालतीभिश्च तथा धत्तूरकैरपि सिन्दुवारैरशोकैश्च मल्लिकाभिश्च पाटलैः
अर्कपुष्पैः कदम्बैश्च शतपत्त्र्या तथोत्पलैः एकैकेन चतुर्दश्योर् अर्चयेत्पार्वतीपतिम्
पुनश्च कार्त्तिके मासे प्राप्ते संतर्पयेद्द्विजान् अन्नैर् नानाविधैर् भक्ष्यैर् वस्त्रमाल्यविभूषणैः
कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः उमामहेश्वरं हैमं वृषभं च गवा सह
मुक्ताफलाष्टकयुतं सितनेत्रपटावृताम् सर्वोपस्करसंयुक्तां शय्यां दद्यात् सकुम्भकाम्
ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम् स्थाप्य विप्राय शान्ताय वेदव्रतपराय च
ज्येष्ठसामविदे देयं नवकव्रतिने क्वचित् गुणज्ञे श्रोत्रिये दद्याद् आचार्ये तत्त्ववेदिनि
अव्यङ्गाङ्गाय सौम्याय सदा कल्पाणकारिणे सपत्नीकाय सम्पूज्य वस्त्रमाल्यविभूषणैः
गुरौ सति गुरोर्देयं तदभावे द्विजातये न वित्तशाठ्यं कुर्वीत कुर्वन्दोषात्पतत्यधः
अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम् सो ऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः
ब्रह्महत्यादिकं किंचिद् यदत्रामुत्र वा कृतम् पितृभिर्भ्रातृभिर्वापि तत्सर्वं नाशमाप्नुयात्
दीर्घायुरारोग्यकुलान्नवृद्धिर् अत्राक्षयामुत्र चतुर्भुजत्वम् गणाधिपत्यं दिवि कल्पकोटिशतान्युषित्वा पदमेति शम्भोः
न बृहस्पतिरप्यनन्तमस्याः फलमिन्दो न पितामहो ऽपि वक्तुम् न च सिद्धगणो ऽप्यलं न चाहं यदि जिह्वायुतकोटयो ऽपि वक्त्रे
भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम् इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा
या वाथ नारी कुरुते ऽतिभक्त्या भर्तारमापृच्छ्य सुतान्गुरून्वा सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेः
फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद यदक्षयं परं लोके सर्वकामफलप्रदम्
मार्गशीर्षे शुभे मासि तृतीयायां मुने व्रतम् द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम्
अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम सदक्षिणं पायसेन भोजयेच्छक्तितो द्विजान्
अष्टादशानां धान्यानाम् अन्यच्च फलमूलकम् वर्जयेदब्दमेकं तु ऋते औषधकारणम् सवृषं काञ्चनं रुद्रं धर्मराजं च कारयेत्
कूष्माण्डं मातुलिङ्गं च वार्ताकं पनसं तथा आम्रातकं कपित्थानि कलिङ्गमथ वालुकम्
श्रीफलाश्वत्थबदरं जम्बीरं कदलीफलम् काश्मरं दाडिमं शक्त्या कालधौतानि षोडश
मूलकामलकं जम्बूतिन्तिडीकरमर्दकम् कङ्कोलैलाकतुण्डीरकरीरकुटजं शमी