ग्रहयज्ञत्रयं कुर्याद् यस् त्वकाम्येन मानवः स विष्णोः पदमाप्नोति पुनरावृत्तिदुर्लभम्
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः न तस्य ग्रहपीडा स्यान् न च बन्धुजनक्षयः
ग्रहयज्ञत्रयं गेहे लिखितं यत्र तिष्ठति न पीडा तत्र बालानां न रोगो न च बन्धनम्
अशेषयज्ञफलदं निःशेषाघविनाशनम् कोटिहोमं विदुः प्राज्ञा भुक्तिमुक्तिफलप्रदम्
अश्वमेधफलं प्राहुर् लक्षहोमं सुरोत्तमाः द्वादशाहमखस् तद्वन् नवग्रहमखः स्मृतः
इति कथितमिदानीमुत्सवानन्दहेतोः सकलकलुषहारी देवयज्ञाभिषेकः परिपठति य इत्थं यः शृणोति प्रसङ्गाद् अभिभवति स शत्रूनायुरारोग्ययुक्तः
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः
श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः चतुर्भुजः श्वेतरोमा वरदः स्याद् धरासुतः
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः
देवदैत्यगुरू तद्वत् पीतश्वेतौ चतुर्भुजौ दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः बाणबाणासनधरः कर्तव्यो ऽर्कसुतस् तथा
करालवदनः खड्गचर्मशूली वरप्रदः नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा
भगवन्भूतभव्येश तथान्यदपि यच्छ्रुतम् भुक्तिमुक्तिफलायालं तत्पुनर् वक्तुमर्हसि
एवमुक्तो ऽब्रवीच्छम्भुर् अयं वाङ्मयपारगः मत्समस्तपसा ब्रह्मन् पुराणश्रुतिविस्तरैः
धर्मो ऽयं वृषरूपेण नन्दी नाम गणाधिपः धर्मान्माहेश्वरान् वक्ष्यत् यतःप्रभृति नारद
इत्युक्त्वा देवदेवेशस् तत्रैवान्तरधीयत नारदो ऽपि हि शुश्रूषुर् अपृच्छन्नन्दिकेश्वरम् आदिष्टस्त्वं शिवेनेह वद माहेश्वरं व्रतम्
शृणुष्वावहितो ब्रह्मन् वक्ष्ये माहेश्वरं व्रतम् त्रिषु लोकेषु विख्याता नाम्ना शिवचतुर्दशी
मार्गशीर्षत्रयोदश्यां सितायामेकभोजनः प्रार्थयेद्देवदेवेशं त्वामहं शरणं गतः
चतुर्दश्यां निराहारः सम्यगभ्यर्च्य शंकरम् सुवर्णवृषभं दत्त्वा भोक्ष्यामि च परे ऽहनि
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः कृतस्नानजपःपश्चाद् उमया सह शंकरम् पूजयेत्कमलैः शुभ्रैर् गन्धमाल्यानुलेपनैः
पादौ नमः शिवायेति शिरः सर्वात्मने नमः त्रिनेत्रायेति नेत्राणि ललाटं हरये नमः
मुखमिन्दुमुखायेति श्रीकण्ठायेति कंधराम् सद्योजाताय कर्णौ तु वामदेवाय वै भुजौ
अघोरहृदयायेति हृदयं चाभिपूजयेत् स्तनौ तत्पुरुषायेति तथेशानाय चोदरम्
पार्श्वौ चानन्तधर्माय ज्ञानभूताय वै कटिम् ऊरू चानन्तवैराग्यसिंहायेत्यभिपूजयेत्
अनन्तैश्वर्यनाथाय जानुनी चार्चयेद्बुधः प्रधानाय नमो जङ्घे गुल्फौ व्योमात्मने नमः
व्योमकेशात्मरूपाय केशान्पृष्ठं च पूजयेत् नमः पुष्ट्यै नमस्तुष्ट्यै पार्वतीं चापि पूजयेत्
ततस्तु वृषभं हैमम् उदकुम्भसमन्वितम् शुक्लमाल्याम्बरधरं पञ्चरत्नसमन्वितम् भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत्