वसोर्धाराविधानं च लक्षहोमे विशिष्यते अनेन विधिना यस्तु कोटिहोमं समाचरेत् सर्वान्कामानवाप्नोति ततो विष्णुपदं व्रजेत्
यः पठेच्छृणुयाद्वापि ग्रहयज्ञत्रयं नरः सर्वपापविशुद्धात्मा पदमिन्द्रस्य गच्छति
अश्वमेधसहस्राणि दश चाष्टौ च धर्मवित् कृत्वा यत्फलमाप्नोति कौटिहोमात् तदश्नुते
ब्रह्महत्यासहस्राणि भ्रूणहत्यार्बुदानि च कोटिहोमेन नश्यन्ति यथावच्छिवभाषितम्
वश्यकर्माभिचारादि तथैवोच्चाटनादिकम् नवग्रहमखं कृत्वा ततः काम्यं समाचरेत्
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् तस्मादयुतहोमस्य विधानं पूर्वमाचरेत्
वृत्तं वोच्चाटने कुण्डं तथा च वश्यकर्मणि त्रिमेखलं चैकवक्त्रम् अरत्निर्विस्तरेण तु
पलाशसमिधः शस्ता मधुगोरोचनान्विताः चन्दनागुरुणा तद्वत् कुङ्कुमेनाभिषिञ्चिताः
होमयेन्मधुसर्पिर्भ्यां बिल्वानि कमलानि च सहस्राणि दशैवोक्तं सर्वदैव स्वयम्भुवा
वश्यकर्मणि बिल्वानां पद्मानां चैव धर्मवित् सुमित्रिया न आप ओषधय इति होमयेत्
न चात्र स्थापनं कार्यं न च कुम्भाभिषेचनम् स्नानं सर्वौषधैः कृत्वा शुक्लपुष्पाम्बरो गृही
कण्ठसूत्रैः सकनकैर् विप्रान् समभिपूजयेत् सूक्ष्मवस्त्राणि देयानि शुक्ला गावः सकाञ्चनाः
अवश्यानि वशी कुर्यात् सर्वशत्रुबलान्यपि अमित्राण्यपि मित्राणि होमो ऽयं पापनाशनः
विद्वेषणे ऽभिचारे च त्रिकोणं कुण्डमिष्यते द्विमेखलं कोणमुखं हस्तमात्रं च सर्वशः
होमं कुर्युस्ततो विप्रा रक्तमाल्यानुलेपनाः निवीतलोहितोष्णीषा लोहिताम्बरधारिणः
नववायसरक्ताढ्यपात्रत्रयसमन्विताः समिधो वामहस्तेन श्येनास्थिबलसंयुताः होतव्या मुक्तकेशैस्तु ध्यायद्भिरशिवं रिपौ
दुर्मित्रियास् तस्मै सन्तु तथा हुंफडितीति च श्येनाभिचारमन्त्रेण क्षुरं समभिमन्त्र्य च
प्रतिरूपं रिपोः कृत्वा क्षुरेण परिकर्तयेत् रिपुरूपस्य शकलान् यथैवाग्नौ विनिष्क्षिपेत्
ग्रहयज्ञविधानान्ते सदैवाभिचरन्पुनः विद्वेषणं तथा कुर्वन् नेतदेव समाचरेत्
इहैव फलदं पुंसाम् एतन्नामुत्र शोभनम् तस्माच्छान्तिकमेवात्र कर्तव्यं भूतिमिच्छता
ग्रहयज्ञत्रयं कुर्याद् यस् त्वकाम्येन मानवः स विष्णोः पदमाप्नोति पुनरावृत्तिदुर्लभम्
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः न तस्य ग्रहपीडा स्यान् न च बन्धुजनक्षयः
ग्रहयज्ञत्रयं गेहे लिखितं यत्र तिष्ठति न पीडा तत्र बालानां न रोगो न च बन्धनम्
अशेषयज्ञफलदं निःशेषाघविनाशनम् कोटिहोमं विदुः प्राज्ञा भुक्तिमुक्तिफलप्रदम्
अश्वमेधफलं प्राहुर् लक्षहोमं सुरोत्तमाः द्वादशाहमखस् तद्वन् नवग्रहमखः स्मृतः
इति कथितमिदानीमुत्सवानन्दहेतोः सकलकलुषहारी देवयज्ञाभिषेकः परिपठति य इत्थं यः शृणोति प्रसङ्गाद् अभिभवति स शत्रूनायुरारोग्ययुक्तः
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः
श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः चतुर्भुजः श्वेतरोमा वरदः स्याद् धरासुतः
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः