धृतिर् वरीयान् यवसः सुवर्णो वष्टिरेव च चरिष्णुर् ईड्यः सुमतिर् वसुः शुक्रश्च वीर्यवान्
भविष्या दश सावर्णेर् मनोः पुत्राः प्रकीर्तिताः रौच्यादयस्तथान्ये ऽपि मनवः संप्रकीर्तिताः
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति मनुर् भूतिसुतस् तद्वद् भौत्यो नाम भविष्यति
ततस्तु मेरुसावर्णिर् ब्रह्मसूनुर् मनुः स्मृतः ऋतश्च ऋतधामा च विष्वक्सेनो मनुस् तथा
अतीतानागताश्चैते मनवः परिकीर्तिताः षडूनं युगसाहस्रम् एभिर् व्याप्तं नराधिप
स्वे स्वे ऽन्तरे सर्वमिदम् उत्पाद्य सचराचरम् कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सहा
एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः
बहुभिर् धारिणी भुक्ता भूपालैः श्रूयते पुरा पार्थिवाः पृथिवीयोगात् पृथिवी कस्य योगतः
किम् अर्थं च कृता संज्ञा भूमेः किं पारिभाषिकी गौर् इतीयं च विख्याता सूत कस्माद्ब्रवीहि नः
वंशे स्वायम्भुवस्यासीद् अङ्गो नाम प्रजापतिः मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा अधर्मनिरतश्चासीद् बलवान् वसुधाधिपः
लोके ऽप्यधर्मकृज्जातः परभार्यापहारकः धर्माचारस्य सिद्ध्यर्थं जगतो ऽथ महर्षिभिः
अनुनीतो ऽपि न ददाव् अनुज्ञां स यदा ततः शापेन मारयित्वैनम् अराजकमयार्दिताः
ममन्थुर् ब्राह्मणास्तस्य बलाद्देहमकल्मषाः तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः पितुरंशस्य चांशेन धार्मिको धर्मचारिणः
उत्पन्नो दक्षिणाद्धस्तात् सधनुः सशरो गदी दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः
पृथोरेवाभवद्यत्नात् ततः पृथुरजायत स विप्रैरभिषिक्तो ऽपि तपः कृत्वा सुदारुणम्
विष्णोर्वरेण सर्वस्य प्रभुत्वम् अगमत् पुनः निःस्वाध्यायवषट्कारं निर्धर्मं वीक्ष्य भूतलम्
दग्धुमेवोद्यतः कोपाच् छरेणामितविक्रमः ततो गोरूपमास्थाय भूः पलायितुम् उद्यता
पृष्ठतो ऽनुगतस्तस्याः पृथुर्दीप्तशरासनः ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्
पृथुर् अप्यवदद् वाक्यम् ईप्सितं देहि सुव्रते सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च
तथैव साब्रवीद् भूमिर् दुदोह स नराधिपः स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम्
तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्
दोग्धा बृहस्पतिरभूत् पात्रं वेदस्तपो रसः देवैश्च वसुधा दुग्धा दोग्धा मित्रस्तदाभवत्
इन्द्रो वत्सः समभवत् क्षीरमूर्जस्करं बलम् देवानां काञ्चनं पात्रं पितॄणां राजतं तथा
अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः अलाबुपात्रं नागानां तक्षको वत्सको ऽभवत्
विषं क्षीरं ततो दोग्धा धृतराष्ट्रो ऽभवत्पुनः असुरैरपि दुग्धेयम् आयसे शक्रपीडिनीम्
पात्रे मायाम् अभूद् वत्सः प्राह्लादिस् तु विरोचनः दोग्धा द्विमूर्धा तत्रासीन् माया येन प्रवर्तिता
यक्षैश्च वसुधा दुग्धा पुरान्तर्धानम् ईप्सुभिः कृत्वा वैश्रवणं वत्सम् आमपात्रे महीपते
प्रेतरक्षोगणैर्दुग्धा धरा रुधिरमुल्बणम् रौप्यनाभो ऽभवद्दोग्धा सुमाली वत्स एव तु