सकामो यस्त्विमं कुर्याल् लक्षहोमं यथाविधि स तं काममवाप्नोति पदमानन्त्यम् अश्नुते
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम्
भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् यं यं प्रार्थयते कामं स वै भवति पुष्कलः निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति
अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा आहुतीभिः प्रयत्नेन दक्षिणाभिः फलेन च
पूर्ववद्ग्रहदेवानाम् आवाहनविसर्जने होममन्त्रास्त एवोक्ताः खाने दाने तथैव च कुण्डमण्डपवेदीनां विशेषो ऽयं निबोध मे
कोटिहोमे चतुर्हस्तं चतुरस्रं तु सर्वतः योनिवक्त्रद्वयोपेतं तदप्याहुस् त्रिमेखलम्
द्व्यङ्गुलाभ्युच्छ्रिता कार्या प्रथमा मेखला बुधैः त्र्यङ्गुलाभ्युच्छ्रिता तद्वद् द्वितीया परिकीर्तिता
उच्छ्रायविस्तराभ्यां च तृतीया चतुरङ्गुला द्व्यङ्गुलश्चेति विस्तारः पूर्वयोरेव शस्यते
वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलविस्तृता कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता
गजौष्ठसदृशी तद्वद् आयता छिद्रसंयुता एतत्सर्वेषु कुण्डेषु योनिलक्षणमुच्यते
मेखलोपरि सर्वत्र अश्वत्थदलसंनिभम् वेदी च कोटिहोमे स्याद् वितस्तीनां चतुष्टयम्
चतुरस्रा समन्ताच्च त्रिभिर्वप्रैस्तु संयुता वप्रप्रमाणं पूर्वोक्तं वेदीनां च तथोच्छ्रयः
तथा षोडशहस्तः स्यान् मण्डपश्च चतुर्मुखः पूर्वद्वारे च संस्थाप्य बह्वृचं वेदपारगम्
यजुर्विदं तथा याम्ये पश्चिमे सामवेदिनम् अथर्ववेदिनं तद्वद् उत्तरे स्थापयेद्बुधः
अष्टौ तु होमकाः कार्या वेदवेदाङ्गवेदिनः एवं द्वादश विप्राः स्युर् वस्त्रमाल्यानुलेपनैः पूर्ववत्पूजयेद्भक्त्या वस्त्राभरणभूषणैः
रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् पूर्वतो बह्वृचः शान्तिं पठन्नास्ते ह्युदङ्मुखः
शाक्तं शाक्रं च सौम्यं च कौष्माण्डं शान्तिमेव च पाठयेद्दक्षिणद्वारि यजुर्वेदिनमुत्तमम्
सुपर्णमथ वैराजम् आग्नेयं रुद्रसंहिताम् ज्येष्ठमास तथा शान्तिं छन्दोगः पश्चिमे जपेत्
शान्तिसूक्तं च सौरं च तथा शाकुनकं शुभम् पौष्टिकं च महाराज्यम् उत्तरेणाप्यथर्ववित्
पञ्चभिः सप्तभिर्वापि होमः कार्यो ऽत्र पूर्ववत् स्नाने दाने च मन्त्राः स्युस् त एव मुनिसत्तम
वसोर्धाराविधानं च लक्षहोमे विशिष्यते अनेन विधिना यस्तु कोटिहोमं समाचरेत् सर्वान्कामानवाप्नोति ततो विष्णुपदं व्रजेत्
यः पठेच्छृणुयाद्वापि ग्रहयज्ञत्रयं नरः सर्वपापविशुद्धात्मा पदमिन्द्रस्य गच्छति
अश्वमेधसहस्राणि दश चाष्टौ च धर्मवित् कृत्वा यत्फलमाप्नोति कौटिहोमात् तदश्नुते
ब्रह्महत्यासहस्राणि भ्रूणहत्यार्बुदानि च कोटिहोमेन नश्यन्ति यथावच्छिवभाषितम्
वश्यकर्माभिचारादि तथैवोच्चाटनादिकम् नवग्रहमखं कृत्वा ततः काम्यं समाचरेत्
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् तस्मादयुतहोमस्य विधानं पूर्वमाचरेत्
वृत्तं वोच्चाटने कुण्डं तथा च वश्यकर्मणि त्रिमेखलं चैकवक्त्रम् अरत्निर्विस्तरेण तु
पलाशसमिधः शस्ता मधुगोरोचनान्विताः चन्दनागुरुणा तद्वत् कुङ्कुमेनाभिषिञ्चिताः
होमयेन्मधुसर्पिर्भ्यां बिल्वानि कमलानि च सहस्राणि दशैवोक्तं सर्वदैव स्वयम्भुवा
वश्यकर्मणि बिल्वानां पद्मानां चैव धर्मवित् सुमित्रिया न आप ओषधय इति होमयेत्