तद्वच्च दश चाष्टौ च लक्षहोमे तु ऋत्विजः कर्तव्याः शक्तितस्तद्वच् चत्वारो वा विमत्सरः
नवग्रहमखात्सर्वं लक्षहोमे दशोत्तरम् भक्ष्यान्दद्यान्मुनिश्रेष्ठ भूषणान्यपि शक्तितः
शयनानि सवस्त्राणि हैमानि कटकानि च कर्णाङ्गुलिपवित्राणि कण्ठसूत्राणि शक्तिमान्
न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः अददल्लोभतो मोहात् कुलक्षयम् अवाप्नुते
अन्नदानं यथाशक्त्या कर्तव्यं भूतिमिच्छता अन्नहीनः कृतो यस्माद् दुर्भिक्षफलदो भवेत्
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः यष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः
न वाप्यल्पधनः कुर्याल् लक्षहोमं नरः क्वचित् यस्मात्पीडाकरो नित्यं यज्ञे भवति विग्रहः
तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्वा यथाविधि एकमप्यर्चयेद्भक्त्या ब्राह्मणं वेदपारगम् दक्षिणाभिः प्रयत्नेन न बहूनल्पवित्तवान्
लक्षहोमस्तु कर्तव्यो यथावित्तं भवेद्बहु यतः सर्वानवाप्नोति कुर्वन्कामान्विधानतः
पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः यावत्कल्पशतान्यष्टाव् अथ मोक्षमवाप्नुयात्
सकामो यस्त्विमं कुर्याल् लक्षहोमं यथाविधि स तं काममवाप्नोति पदमानन्त्यम् अश्नुते
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम्
भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् यं यं प्रार्थयते कामं स वै भवति पुष्कलः निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति
अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा आहुतीभिः प्रयत्नेन दक्षिणाभिः फलेन च
पूर्ववद्ग्रहदेवानाम् आवाहनविसर्जने होममन्त्रास्त एवोक्ताः खाने दाने तथैव च कुण्डमण्डपवेदीनां विशेषो ऽयं निबोध मे
कोटिहोमे चतुर्हस्तं चतुरस्रं तु सर्वतः योनिवक्त्रद्वयोपेतं तदप्याहुस् त्रिमेखलम्
द्व्यङ्गुलाभ्युच्छ्रिता कार्या प्रथमा मेखला बुधैः त्र्यङ्गुलाभ्युच्छ्रिता तद्वद् द्वितीया परिकीर्तिता
उच्छ्रायविस्तराभ्यां च तृतीया चतुरङ्गुला द्व्यङ्गुलश्चेति विस्तारः पूर्वयोरेव शस्यते
वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलविस्तृता कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता
गजौष्ठसदृशी तद्वद् आयता छिद्रसंयुता एतत्सर्वेषु कुण्डेषु योनिलक्षणमुच्यते
मेखलोपरि सर्वत्र अश्वत्थदलसंनिभम् वेदी च कोटिहोमे स्याद् वितस्तीनां चतुष्टयम्
चतुरस्रा समन्ताच्च त्रिभिर्वप्रैस्तु संयुता वप्रप्रमाणं पूर्वोक्तं वेदीनां च तथोच्छ्रयः
तथा षोडशहस्तः स्यान् मण्डपश्च चतुर्मुखः पूर्वद्वारे च संस्थाप्य बह्वृचं वेदपारगम्
यजुर्विदं तथा याम्ये पश्चिमे सामवेदिनम् अथर्ववेदिनं तद्वद् उत्तरे स्थापयेद्बुधः
अष्टौ तु होमकाः कार्या वेदवेदाङ्गवेदिनः एवं द्वादश विप्राः स्युर् वस्त्रमाल्यानुलेपनैः पूर्ववत्पूजयेद्भक्त्या वस्त्राभरणभूषणैः
रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् पूर्वतो बह्वृचः शान्तिं पठन्नास्ते ह्युदङ्मुखः
शाक्तं शाक्रं च सौम्यं च कौष्माण्डं शान्तिमेव च पाठयेद्दक्षिणद्वारि यजुर्वेदिनमुत्तमम्
सुपर्णमथ वैराजम् आग्नेयं रुद्रसंहिताम् ज्येष्ठमास तथा शान्तिं छन्दोगः पश्चिमे जपेत्
शान्तिसूक्तं च सौरं च तथा शाकुनकं शुभम् पौष्टिकं च महाराज्यम् उत्तरेणाप्यथर्ववित्
पञ्चभिः सप्तभिर्वापि होमः कार्यो ऽत्र पूर्ववत् स्नाने दाने च मन्त्राः स्युस् त एव मुनिसत्तम