यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीम् दानान्यन्यानि मे शान्तिर् भूमिदानाद्भवत्विह
एवं सम्पूजयेद्भक्त्या वित्तशाठ्येन वर्जितः रत्नकाञ्चनवस्त्रौघैर् धूपमाल्यानुलेपनैः
अनेन विधिना यस्तु ग्रहपूजां समाचरेत् सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते
यस्तु पीडाकरो नित्यम् अल्पवित्तस्य वा ग्रहः तं च यत्नेन सम्पूज्य शेषानप्यर्चयेद्बुधः
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः
यथा बाणप्रहाराणां कवचं भवति वारणम् तद्वद्दैवोपघातानां शान्तिर्भवति वारणम्
तस्मान्न दक्षिणाहीनं कर्तव्यं भूतिमिच्छता सम्पूर्णया दक्षिणया यस्मादेको ऽपि तुष्यति
सदैवायुतहोमो ऽयं नवग्रहमखे स्थितः विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु
निर्विघ्नार्थं मुनिश्रेष्ठ तथोद्वेगाद्भुतेषु च कथितो ऽयुतहोमो ऽयं लक्षहोममतः शृणु
सर्वकामाप्तये यस्माल् लक्षहोमं विदुर्बुधाः पितॄणां वल्लभं साक्षाद् भुक्तिमुक्तिफलप्रदम्
ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः
रुद्रायतनभूमौ वा चतुरस्रमुदङ्मुखम् दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः
प्रागुदक्प्लवनां भूमिं कारयेद्यत्नतो बुधः प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्य तु
शोभनं कारयेत्कुण्डं यथावल्लक्षणान्वितम् चतुरस्रं समन्तात्तु योनिवक्त्रं समेखलम्
चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता प्रागुदक्प्लवना कार्या सर्वतः समवस्थिता
शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मृतः मानहीनाधिकं कुण्डम् अनेकभयदं भवेत् यस्मात्तस्मात् सुसम्पूर्णं शान्तिकुण्डं विधीयते
अस्माद्दशगुणः प्रोक्तो लक्षहोमः स्वयम्भुवा आहुतीभिः प्रयत्नेन दक्षिणाभिस्तथैव च
द्विहस्तविस्तृतं तद्वच् चतुर्हस्तायतं पुनः लक्षहोमे भवेत्कुण्डं योनिवक्त्रं त्रिमेखलम्
तस्य चोत्तरपूर्वेण वितस्तित्रयसंस्थितम् प्रागुदक्प्लवनं तच्च चतुरस्रं समन्ततः
विष्कम्भार्धोच्छ्रितं प्रोक्तं स्थण्डिलं विश्वकर्मणा संस्थापनाय देवानां वप्रत्रयसमावृतम्
द्व्यङ्गुलो ह्युच्छ्रितो वप्रः प्रथमः स उदाहृतः अङ्गुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरि
त्र्यङ्गुलस्य च विस्तारः सर्वेषां कथ्यते बुधैः दशाङ्गुलोच्छ्रिता भित्तिः स्थण्डिले स्यात्तथोपरि तस्मिन्नावाहयेद्देवान् पूर्ववत्पुष्पतण्डुलैः
आदित्याभिमुखाः सर्वाः साधिप्रत्यधिदेवताः स्थापनीया मुनिश्रेष्ठ नोत्तरेण पराङ्मुखाः
गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता सामध्वनिशरीरस्त्वं वाहनं परमेष्ठिनः विषपापहरो नित्यम् अतः शान्तिं प्रयच्छ मे
पूर्ववत्कुम्भमामन्त्र्य तद्वद्धोमं समाचरेत् सहस्राणां शतं हुत्वा समित्संख्याधिकं पुनः घृतकुम्भवसोर्धारां पातयेदनलोपरि
औदुम्बरीं तथार्द्रां च ऋज्वीं कोटरवर्जिताम् बाहुमात्रां स्रुचं कृत्वा ततः स्तम्भद्वयोपरि घृतधारां तया सम्यग् अग्नेरुपरि पातयेत्
श्रावयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमैन्दवम् महावैश्वानरं साम ज्येष्ठसाम च वाचयेत्
स्नानं च यजमानस्य पूर्ववत्स्वस्तिवाचनम् दातव्या यजमानेन पूर्ववद्दक्षिणाः पृथक्
कामक्रोधविहीनेन ऋत्विग्भ्यः शान्तचेतसा नवग्रहमखे विप्राश् चत्वारो वेदवेदिनः
अथवा ऋत्विजौ शान्तौ द्वावेव श्रुतिकोविदौ कार्यावयुतहोमे तु न प्रसज्येत विस्तरे