विनायकस्य चानूनम् इति मन्त्रो बुधैः स्मृतः जातवेदसे सुनवाम दुर्गामन्त्रो ऽयमुच्यते
आदित्प्रत्नस्य रेतस आकाशस्य उदाहृतः क्राणा शिशुर्महीनां च वायोर्मन्त्रः प्रकीर्तितः
एषो उषा अपूर्व्या इत्य् अश्विनोर्मन्त्र उच्यते पूर्णाहुतिस्तु मूर्धानं दिव इत्यभिपातयेत्
अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखम्
अव्यङ्गावयवैर्ब्रह्मन् हेमस्रग्दामभूषितैः यजमानस्य कर्तव्यं चतुर्भिः स्नपनं द्विजैः
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः वासुदेवो जगन्नाथस् तथा संकर्षणो विभुः प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते
आखण्डलो ऽग्निर्भगवान् यमो वै निरृतिस्तथा वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ब्रह्मणा सहितः शेषो दिक्पालास्त्वामवन्तु ते
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः बुद्धिर्लज्जा वपुः शान्तिस् तुष्टिः क्रान्तिश्च मातरः एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः
आदित्यश्चन्द्रमा भौमो बुधो जीवः सितो ऽर्कजः ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ऋषयो मुनयो गावो देवमातर एव च
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च
औषधानि च रत्नानि कालस्यावयवाश्च ये सरितः सागराः शैलास् तीर्थानि जलदा नदाः एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये
ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः सर्वौषधैः सर्वगन्धैः स्नापितो द्विजपुंगवैः
यजमानः सपत्नीक ऋत्विजः सुसमाहितान् दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः
सूर्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे रक्तं धुरंधरं दद्याद् भौमाय च ककुद्मिनम्
बुधाय जातरूपं तु गुरवे पीतवाससी श्वेताश्वं दैत्यगुरवे कृष्णां गामर्कसूनवे
आयसं राहवे दद्यात् केतुभ्यश्छागमुत्तमम् सुवर्णेन समा कार्या यजमानेन दक्षिणा
सर्वेषामथवा गावो दातव्या हेमभूषिताः सुवर्णमथवा दद्याद् गुरुर्वा येन तुष्यति समन्त्रेणैव दातव्याः सर्वाः सर्वत्र दक्षिणाः
कपिले सर्वदेवानां पूजनीयासि रोहिणी तीर्थदेवमयी यस्माद् अतः शान्तिं प्रयच्छ मे
पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानां च मङ्गलम् विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे
धर्मस्त्वं वृषरूपेण जगदानन्दकारक अष्टमूर्तेरधिष्ठानम् अतः शान्तिं प्रयच्छ मे
हिरण्यगर्भगर्भस्त्वं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे
पीतवस्त्रयुगं यस्माद् वासुदेवस्य वल्लभम् प्रदानात्तस्य मे विष्णो ह्य् अतः शान्तिं प्रयच्छ मे
विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः चन्द्रार्कवाहनो नित्यम् अतः शान्तिं प्रयच्छ मे
यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसंनिभा सर्वपापहरा नित्यम् अतः शान्तिं प्रयच्छ मे
यस्मादायासकर्माणि तवाधीनानि सर्वदा लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छ मे
यस्मात्त्वं सर्वयज्ञानाम् अङ्गत्वेन व्यवस्थितः यानं विभावसोर्नित्यम् अतः शान्तिं प्रयच्छ मे
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश यस्मात्तस्माच्छ्रिये मे स्याद् इह लोके परत्र च
यस्मादशून्यं शयनं केशवस्य च सर्वदा शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि
यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः तथा रत्नानि यच्छन्तु रत्नदानेन मे सुराः