एवमावाहयेदेतान् अमरान्मुनिसत्तम होमं समारभेत्सर्पिर् यवव्रीहितिलादिना
अर्कः पलाशखदिराव् अपामार्गो ऽथ पिप्पलः औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्
एकैकस्याष्टकशतम् अष्टविंशतिरेव वा होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः
प्रादेशमात्रा अशिफा अशाखा अपलाशिनीः समिधः कल्पयेत्प्राज्ञः सर्वकर्मसु सर्वदा
देवानामपि सर्वेषाम् उपांशु परमार्थवित् स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक्
होतव्यं च घृताभ्यक्तं चरुभक्षादिकं पुनः मन्त्रैर्दशाहुतीर्हुत्वा होमं व्याहृतिभिस्ततः
उदङ्मुखाः प्राङ्मुखा वा कुर्युर्ब्राह्मणपुंगवाः मन्त्रवन्तश्च कर्तव्याश् चरवः प्रतिदैवतम्
हुत्वा च तांश्चरून्सम्यक् ततो होमं समाचरेत् आकृष्णेति च सूर्याय होमः कार्यो द्विजन्मना
आप्यायस्वेति सोमाय मन्त्रेण जुहुयात्पुनः अग्निर्मूर्धा दिवो मन्त्र इति भौमाय कीर्तयेत्
अग्ने विवस्वदुषस इति सोमसुताय वै बृहस्पते परिदीया रथेनेति गुरोर्मतः
शुक्रं ते अन्यदिति च शुक्रस्यापि निगद्यते शनैश्चरायेति पुनः शं नो देवीति होमयेत्
कया नश्चित्र आभुवद् इति राहोरुदाहृतः केतुं कृण्वन्न् अपि ब्रूयात् केतूनामपि शान्तये
आ वो राजेति रुद्रस्य बलिहोमं समाचरेत् आपो हि ष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा
विष्णोरिदं विष्णुरिति तमीशेति स्वयम्भुवः इन्द्रम् इद्देवतातेति इन्द्राय जुहुयात्ततः
तथा यमस्य चायं गौर् इति होमः प्रकीर्तितः कालस्य ब्रह्म जज्ञानम् इति मन्त्रः प्रशस्यते
चित्रगुप्तस्य चाज्ञातम् इति मन्त्रविदो विदुः अग्निं दूतं वृणीमह इति वह्नेरुदाहृतः
उद् उत्तमं वरुणमित्य् अपां मन्त्रः प्रकीर्तितः भूमेः पृथिव्यन्तरिक्षम् इति वेदेषु पठ्यते
सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते
उत्तानपर्णे सुभगे इति देव्याः समाचरेत् प्रजापतेः पुनर्होमः प्रजापतिरिति स्मृतः
नमो ऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते एष ब्रह्मा य ऋत्विग्भ्य इति ब्रह्मण्युदाहृतः
विनायकस्य चानूनम् इति मन्त्रो बुधैः स्मृतः जातवेदसे सुनवाम दुर्गामन्त्रो ऽयमुच्यते
आदित्प्रत्नस्य रेतस आकाशस्य उदाहृतः क्राणा शिशुर्महीनां च वायोर्मन्त्रः प्रकीर्तितः
एषो उषा अपूर्व्या इत्य् अश्विनोर्मन्त्र उच्यते पूर्णाहुतिस्तु मूर्धानं दिव इत्यभिपातयेत्
अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखम्
अव्यङ्गावयवैर्ब्रह्मन् हेमस्रग्दामभूषितैः यजमानस्य कर्तव्यं चतुर्भिः स्नपनं द्विजैः
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः वासुदेवो जगन्नाथस् तथा संकर्षणो विभुः प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते
आखण्डलो ऽग्निर्भगवान् यमो वै निरृतिस्तथा वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ब्रह्मणा सहितः शेषो दिक्पालास्त्वामवन्तु ते
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः बुद्धिर्लज्जा वपुः शान्तिस् तुष्टिः क्रान्तिश्च मातरः एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः
आदित्यश्चन्द्रमा भौमो बुधो जीवः सितो ऽर्कजः ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ऋषयो मुनयो गावो देवमातर एव च