प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः विनायकं तथा दुर्गां वायुराकाशमेव च आवाहयेद्व्याहृतिभिस् तथैवाश्विकुमारकौ
संस्मरेद्रक्तमादित्यम् अङ्गारकसमन्वितम् सोमशुक्रौ तथा श्वेतो बुधजीवौ च पिङ्गलौ मन्दराहू तथा कृष्णौ धूम्रं केतुगणं विदुः
ग्रहवर्णानि देयानि वासांसि कुसुमानि च धूपामोदो ऽत्र सुरभिर् उपरिष्टाद् वितानिकम् शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम्
गुडौदनं रवेर्दद्यात् सोमाय घृतपायसम् अङ्गारकाय संयावं बुधाय क्षीरषष्टिके
दध्योदनं च जीवाय शक्राय च घृतौदनम् शनैश्चराय कृसराम् अजामांसं च राहवे चित्रौदनं च केतुभ्यः सर्वभक्ष्यैरथार्चयेत्
प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् चूतपल्लवसंछन्नं फलवस्त्रयुगान्वितम्
पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम् स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत्
गङ्गाद्याः सरितः सर्वाः समुद्रांश्च सरांसि च गजाश्वरथ्यावल्मीकसंगमाद्ध्रदगोकुलात्
मृदमानीय विप्रेन्द्र सर्वौषधिजलान्विताम् स्नानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित्
सर्वे समुद्राः सरितः सरांसि च नदास्तथा आयान्तु यजमानस्य दुरितक्षयकारकाः
एवमावाहयेदेतान् अमरान्मुनिसत्तम होमं समारभेत्सर्पिर् यवव्रीहितिलादिना
अर्कः पलाशखदिराव् अपामार्गो ऽथ पिप्पलः औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्
एकैकस्याष्टकशतम् अष्टविंशतिरेव वा होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः
प्रादेशमात्रा अशिफा अशाखा अपलाशिनीः समिधः कल्पयेत्प्राज्ञः सर्वकर्मसु सर्वदा
देवानामपि सर्वेषाम् उपांशु परमार्थवित् स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक्
होतव्यं च घृताभ्यक्तं चरुभक्षादिकं पुनः मन्त्रैर्दशाहुतीर्हुत्वा होमं व्याहृतिभिस्ततः
उदङ्मुखाः प्राङ्मुखा वा कुर्युर्ब्राह्मणपुंगवाः मन्त्रवन्तश्च कर्तव्याश् चरवः प्रतिदैवतम्
हुत्वा च तांश्चरून्सम्यक् ततो होमं समाचरेत् आकृष्णेति च सूर्याय होमः कार्यो द्विजन्मना
आप्यायस्वेति सोमाय मन्त्रेण जुहुयात्पुनः अग्निर्मूर्धा दिवो मन्त्र इति भौमाय कीर्तयेत्
अग्ने विवस्वदुषस इति सोमसुताय वै बृहस्पते परिदीया रथेनेति गुरोर्मतः
शुक्रं ते अन्यदिति च शुक्रस्यापि निगद्यते शनैश्चरायेति पुनः शं नो देवीति होमयेत्
कया नश्चित्र आभुवद् इति राहोरुदाहृतः केतुं कृण्वन्न् अपि ब्रूयात् केतूनामपि शान्तये
आ वो राजेति रुद्रस्य बलिहोमं समाचरेत् आपो हि ष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा
विष्णोरिदं विष्णुरिति तमीशेति स्वयम्भुवः इन्द्रम् इद्देवतातेति इन्द्राय जुहुयात्ततः
तथा यमस्य चायं गौर् इति होमः प्रकीर्तितः कालस्य ब्रह्म जज्ञानम् इति मन्त्रः प्रशस्यते
चित्रगुप्तस्य चाज्ञातम् इति मन्त्रविदो विदुः अग्निं दूतं वृणीमह इति वह्नेरुदाहृतः
उद् उत्तमं वरुणमित्य् अपां मन्त्रः प्रकीर्तितः भूमेः पृथिव्यन्तरिक्षम् इति वेदेषु पठ्यते
सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते
उत्तानपर्णे सुभगे इति देव्याः समाचरेत् प्रजापतेः पुनर्होमः प्रजापतिरिति स्मृतः
नमो ऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते एष ब्रह्मा य ऋत्विग्भ्य इति ब्रह्मण्युदाहृतः