नृपकोटिसहस्रेण न कदाचित्स मुच्यते कदाचिदास्थानगतः पप्रच्छ स पुरोधसम् विस्मयेनावृतो राजा वसिष्ठमृषिसत्तमम्
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम्
पुरा लीलावती नाम वेश्या शिवपरायणा तया दत्तश्चतुर्दश्यां गुरवे लवणाचलः हेमवृक्षादिभिः सार्धं यथावद्विधिपूर्वकम्
शूद्रः सुवर्णकारश्च नाम्ना शौण्डो ऽभवत्तदा भृत्यो लीलावतीगेहे तेन हेम्ना विनिर्मिताः
तरवः सुरमुख्याश्च श्रद्धायुक्तेन पार्थिव अतिरूपेण सम्पन्ना घटयित्वा विना भृतिम् धर्मकार्यमिति ज्ञात्वा न गृह्णाति कथंचन
उज्ज्वालिताश्च तत्पत्न्या सौवर्णामरपादपाः लीलावती गिरेः पार्श्वे परिचर्यां च पार्थिव
कृत्वा ताभ्याम् अशाठ्येन गुरुशुश्रूषणादिकम् सा च लीलावती वेश्याकालेन महतापि च
कालधर्ममनुप्राप्ता कर्मयोगेण नारद सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम्
यो ऽसौ सुवर्णकारस्तु दरिद्रो ऽप्यतिसत्त्ववान् न मौल्यमादाद्वेश्यातः स भवानिह साम्प्रतम्
सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः यया सुवर्णकारस्य तरवो हेमनिर्मिताः सम्यगुज्ज्वालिताः पत्न्या सेयं भानुमती तव
उज्ज्वालनादुज्ज्वलरुपमस्याः संजातमस्मिन्भुवनाधिपत्यम् यस्मात्कृतं तत्परिकर्म रात्राव् अनुद्धताभ्यां लवणाचलस्य
तस्माच्च लोकेष्वपराजितत्वम् आरोग्यसौभाग्ययुता च लक्ष्मीः तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्दशधा कुरुष्व
तथेति सत्कृत्य स धर्ममूर्तिर् वचो वसिष्ठस्य ददौ च सर्वान् धान्याचलदीञ्छतशो मुरारेर् लोकं जगामामरपूज्यमानः
पश्येदपीमानधनो ऽतिभक्त्या स्पृशेन्मनुष्यैरपि दीयमानान् शृणोति भक्त्याथ मतिं ददाति विकल्मषः सो ऽपि दिवं प्रयाति
दुःस्वप्नं प्रशममुपैति पठ्यमानैः शैलेन्द्रैर्भवभयभेदनैर्मनुष्यैः यः कुर्यात्किमु मुनिपुंगवेह सम्यक् शान्तात्मा सकलगिरीन्द्रसम्प्रदानम्
वैशम्पायनम् आसीनम् अपृच्छच्छौनकः पुरा सर्वकामाप्तये नित्यं कथं शान्तिकपौष्टिकम्
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् वृद्ध्यायुः पुष्टिकामो वा तथैवाभिचरन्पुनः येन ब्रह्मन्विधानेन तन्मे निगदतः शृणु
सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम् ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिचोदिताम्
पुण्ये ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ग्रहान्ग्रहाधिदेवांश्च स्थाप्य होमं समारभेत्
ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः प्रथमो ऽयुतहोमः स्याल् लक्षहोमस्ततः परम्
तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः अयुतेनाहुतीनां च नवग्रहमखः स्मृतः
तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम् गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम्
वप्रद्वयावृतां वेदिं वितस्त्युच्छ्रायसंमिताम् संस्थापनाय देवानां चतुरस्रामुदङ्मुखाम्
अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान् देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका
सूर्यः सोमस्तथा भौमो बुधजीवसितार्कजाः राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः
मध्ये तु भास्करं विद्याल् लोहितं दक्षिणेन तु उत्तरेण गुरुं विद्याद् बुधं पूर्वोत्तरेण तु
पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके पश्चिमेन शनिं विद्याद् राहुं पश्चिमदक्षिणे पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतण्डुलैः
भास्करस्येश्वरं विद्याद् उमां च शशिनस्तथा स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम्
ब्रह्माणं च गुरोर्विद्याच् छुक्रस्यापि शचीपतिम् शनैश्चरस्य तु यमं राहोः कालं तथैव च
केतोर्वै चित्रगुप्तं च सर्वेषामधिदेवताः अग्निरापः क्षितिर्विष्णुर् इन्द्र ऐन्द्री च देवताः