अथातः सम्प्रवक्ष्यामि शर्कराशैलमुत्तमम् यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा
अष्टाभिः शर्कराभारैर् उत्तमः स्यान्महाचलः चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः
भारेण वार्धभारेण कुर्याद्यः स्वल्पवित्तवान् विष्कम्भपर्वतान्कुर्यात् तुरीयांशेन मानवः
धान्यपर्वतवत्सर्वम् आसाद्यामरसंयुतम् मेरोरुपरि तद्वच्च स्थाप्यं हेमतरुत्रयम्
मन्दारः पारिजातश्च तृतीयः कल्पपादपः एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि नियोजयेत्
हरिचन्दनसंतानौ पूर्वपश्चिमभागयोः निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले
मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् गन्धमादनशृङ्गे तु धनदः स्यादुदङ्मुखः
प्राङ्मुखो वेदमूर्तिस्तु हंसः स्याद्विपुलाचले हैमी सुपार्श्वे सुरभिर् दक्षिणाभिमुखी भवेत्
धान्यपर्वतवत्सर्वम् आवाहनविधानकम् कृत्वा तु गुरवे दद्यान् मध्यमं पर्वतोत्तमम् ऋत्विग्भ्यश् चतुरः शैलान् इमान्मन्त्रानुदीरयन्
सौभाग्यामृतसारो ऽयं पर्वतः शर्करायुतः तस्मादानन्दकारी त्वं भव शैलेन्द्र सर्वदा
अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल
मनोभवधनुर्मध्याद् उद्भूता शर्करा यतः तन्मयो ऽसि महाशैल पाहि संसारसागरात्
यो दद्याच्छर्कराशैलम् अनेन विधिना नरः सर्वपापैर् विनिर्मुक्तः स याति परमं पदम्
चन्द्रतारार्कसंकाशम् अधिरुह्यानुजीविभिः सहैव यानमातिष्ठेत् तत्र विष्णुप्रचोदितः
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् आयुरारोग्यसम्पन्नो यावज्जन्मार्बुदत्रयम्
भोजनं शक्तितः कुर्यात् सर्वशैलेष्वमत्सरः सर्वत्राक्षारलवणम् अश्नीयात्तदनुज्ञया पर्वतोपस्करान्सर्वान् प्रापयेद्ब्राह्मणालयम्
आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः भवन्ति शतशो येन शत्रवश्चापराजिताः यथेच्छारूपधारी च मनुष्यो ऽप्यपराजितः
तस्य भानुमती नाम भार्या त्रैलोक्यसुन्दरी लक्ष्मीवद् दिव्यरूपेण निर्जितामरसुन्दरी
राज्ञस्तस्याग्र्यमहिषी प्राणेभ्यो ऽपि गरीयसी दशनारीसहस्राणां मध्ये श्रीरिव राजते
नृपकोटिसहस्रेण न कदाचित्स मुच्यते कदाचिदास्थानगतः पप्रच्छ स पुरोधसम् विस्मयेनावृतो राजा वसिष्ठमृषिसत्तमम्
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम्
पुरा लीलावती नाम वेश्या शिवपरायणा तया दत्तश्चतुर्दश्यां गुरवे लवणाचलः हेमवृक्षादिभिः सार्धं यथावद्विधिपूर्वकम्
शूद्रः सुवर्णकारश्च नाम्ना शौण्डो ऽभवत्तदा भृत्यो लीलावतीगेहे तेन हेम्ना विनिर्मिताः
तरवः सुरमुख्याश्च श्रद्धायुक्तेन पार्थिव अतिरूपेण सम्पन्ना घटयित्वा विना भृतिम् धर्मकार्यमिति ज्ञात्वा न गृह्णाति कथंचन
उज्ज्वालिताश्च तत्पत्न्या सौवर्णामरपादपाः लीलावती गिरेः पार्श्वे परिचर्यां च पार्थिव
कृत्वा ताभ्याम् अशाठ्येन गुरुशुश्रूषणादिकम् सा च लीलावती वेश्याकालेन महतापि च
कालधर्ममनुप्राप्ता कर्मयोगेण नारद सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम्
यो ऽसौ सुवर्णकारस्तु दरिद्रो ऽप्यतिसत्त्ववान् न मौल्यमादाद्वेश्यातः स भवानिह साम्प्रतम्
सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः यया सुवर्णकारस्य तरवो हेमनिर्मिताः सम्यगुज्ज्वालिताः पत्न्या सेयं भानुमती तव