अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् यत्प्रदानान्नरो याति सोमलोकमनुत्तमम्
दशभिः पलसाहस्रैर् उत्तमो रजताचलः पञ्चभिर्मध्यमः प्रोक्तस् तदर्धेनाधमः स्मृतः
अशक्तो विंशतेरूर्ध्वं कारयेच्छक्तितस्तदा विष्कम्भपर्वतांस्तद्वत् तुरीयांशेन कल्पयेत्
पूर्ववद्राजतान्कुर्वन् मन्दरादीन्विधानतः कलधौतमयांस्तद्वल् लोकेशानर्चयेद्बुधः
ब्रह्मविष्ण्वर्कवान्कार्यो नितम्बो ऽत्र हिरण्मयः राजतं स्याद्यदन्येषां सर्वं तदिह काञ्चनम्
शेषं तु पूर्ववत्कुर्याद् धोमजागरणादिकम् दद्यात्ततः प्रभाते तु गुरवे रौप्यपर्वतम्
विष्कम्भशैलानृत्विग्भ्यः पूज्यवस्त्रविभूषणैः इमं मन्त्रं पठन्दद्याद् दर्भपाणिर्विमत्सरः
पितॄणां वल्लभो यस्माद् धरीन्द्राणां शिवस्य च पाहि राजत तस्मात्त्वं शोकसंसारसागरात्
इत्थं निवेद्य यो दद्याद् रजताचलमुत्तमम् गवामयुतदानस्य फलं प्राप्नोति मानवः
सोमलोके स गन्धर्वैः किंनराप्सरसां गणैः पूज्यमानो वसेद्विद्वान् यावदाभूतसंप्लवम्
अथातः सम्प्रवक्ष्यामि शर्कराशैलमुत्तमम् यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा
अष्टाभिः शर्कराभारैर् उत्तमः स्यान्महाचलः चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः
भारेण वार्धभारेण कुर्याद्यः स्वल्पवित्तवान् विष्कम्भपर्वतान्कुर्यात् तुरीयांशेन मानवः
धान्यपर्वतवत्सर्वम् आसाद्यामरसंयुतम् मेरोरुपरि तद्वच्च स्थाप्यं हेमतरुत्रयम्
मन्दारः पारिजातश्च तृतीयः कल्पपादपः एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि नियोजयेत्
हरिचन्दनसंतानौ पूर्वपश्चिमभागयोः निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले
मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् गन्धमादनशृङ्गे तु धनदः स्यादुदङ्मुखः
प्राङ्मुखो वेदमूर्तिस्तु हंसः स्याद्विपुलाचले हैमी सुपार्श्वे सुरभिर् दक्षिणाभिमुखी भवेत्
धान्यपर्वतवत्सर्वम् आवाहनविधानकम् कृत्वा तु गुरवे दद्यान् मध्यमं पर्वतोत्तमम् ऋत्विग्भ्यश् चतुरः शैलान् इमान्मन्त्रानुदीरयन्
सौभाग्यामृतसारो ऽयं पर्वतः शर्करायुतः तस्मादानन्दकारी त्वं भव शैलेन्द्र सर्वदा
अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल
मनोभवधनुर्मध्याद् उद्भूता शर्करा यतः तन्मयो ऽसि महाशैल पाहि संसारसागरात्
यो दद्याच्छर्कराशैलम् अनेन विधिना नरः सर्वपापैर् विनिर्मुक्तः स याति परमं पदम्
चन्द्रतारार्कसंकाशम् अधिरुह्यानुजीविभिः सहैव यानमातिष्ठेत् तत्र विष्णुप्रचोदितः
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् आयुरारोग्यसम्पन्नो यावज्जन्मार्बुदत्रयम्
भोजनं शक्तितः कुर्यात् सर्वशैलेष्वमत्सरः सर्वत्राक्षारलवणम् अश्नीयात्तदनुज्ञया पर्वतोपस्करान्सर्वान् प्रापयेद्ब्राह्मणालयम्
आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः भवन्ति शतशो येन शत्रवश्चापराजिताः यथेच्छारूपधारी च मनुष्यो ऽप्यपराजितः
तस्य भानुमती नाम भार्या त्रैलोक्यसुन्दरी लक्ष्मीवद् दिव्यरूपेण निर्जितामरसुन्दरी
राज्ञस्तस्याग्र्यमहिषी प्राणेभ्यो ऽपि गरीयसी दशनारीसहस्राणां मध्ये श्रीरिव राजते