विंशत्या घृतकुम्भानाम् उत्तमः स्याद्घृताचलः दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः
अल्पवित्तो ऽपि यः कुर्याद् द्वाभ्यामिह विधानतः विष्कम्भपर्वतांस्तद्वच् चतुर्भागेण कल्पयेत्
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् कारयेत्संहतानुच्चान् यथाशोभं विधानतः
वेष्टयेच्छुक्लवासोभिर् इक्षुदण्डफलादिकैः धान्यपर्वतवच्छेषं विधानमिह पठ्यते
अधिवासनपूर्वं च तद्वद्धोमसुरार्चनम् प्रभातायां तु शर्वर्यां गुरवे तं निवेदयेत् विष्कम्भपर्वतांस्तद्वद् ऋत्विग्भ्यः शान्तमानसः
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः तस्माद्धृतार्चिर्विश्वात्मा प्रीयतामत्र शंकरः
यस्मात्तेजोमयं ब्रह्म घृते तद्विद्ध्यवस्थितम् घृतपर्वतरूपेण तस्मात्त्वं पाहि नो ऽनिशम्
अनेन विधिना दद्याद् घृताचलमनुत्तमम् महापातकयुक्तो ऽपि लोकमाप्नोति शांकरम्
हंससारसयुक्तेन किङ्किणीजालमालिना विमानेनाप्सरोभिश्च सिद्धविद्याधरैर् वृतः विहरेत्पितृभिः सार्धं यावदाभूतसंप्लवम्
अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः
मध्यमः पञ्चशतिकस् त्रिशतेनाधमः स्मृतः चतुर्थांशेन विष्कम्भपर्वताः स्युः समन्ततः
पूर्वेण वज्रगोमेदैर् दक्षिणेनेन्द्रनीलकैः पद्मरागयुतः कार्यो विद्वद्भिर्गन्धमादनः
वैदूर्यविद्रुमैः पश्चात् सम्मिश्रो विमलाचलः पद्मरागैः ससौवर्णैर् उत्तरेण च विन्यसेत्
धान्यपर्वतवत्सर्वम् अत्रापि परिकल्पयेत् तद्वदावाहनं कुर्याद् वृक्षान्देवांश्च काञ्चनान्
पूजयेत्पुष्पगन्धाद्यैः प्रभाते च विमत्सरः पूर्ववद्गुरुऋत्विग्भ्य इमान्मन्त्रानुदीरयेत्
यदा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः त्वं च रत्नमयो नित्यं नमस्ते ऽस्तु सदाचल
यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः सदा रत्नप्रदानेन तस्मान्नः पाहि पर्वत
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् स याति विष्णुसालोक्यम् अमरेश्वरपूजितः
यावत्कल्पशतं साग्रं वसेच्चेह नराधिप रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्
ब्रह्महत्यादिकं किंचिद् यदत्रामुत्र वा कृतम् तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् यत्प्रदानान्नरो याति सोमलोकमनुत्तमम्
दशभिः पलसाहस्रैर् उत्तमो रजताचलः पञ्चभिर्मध्यमः प्रोक्तस् तदर्धेनाधमः स्मृतः
अशक्तो विंशतेरूर्ध्वं कारयेच्छक्तितस्तदा विष्कम्भपर्वतांस्तद्वत् तुरीयांशेन कल्पयेत्
पूर्ववद्राजतान्कुर्वन् मन्दरादीन्विधानतः कलधौतमयांस्तद्वल् लोकेशानर्चयेद्बुधः
ब्रह्मविष्ण्वर्कवान्कार्यो नितम्बो ऽत्र हिरण्मयः राजतं स्याद्यदन्येषां सर्वं तदिह काञ्चनम्
शेषं तु पूर्ववत्कुर्याद् धोमजागरणादिकम् दद्यात्ततः प्रभाते तु गुरवे रौप्यपर्वतम्
विष्कम्भशैलानृत्विग्भ्यः पूज्यवस्त्रविभूषणैः इमं मन्त्रं पठन्दद्याद् दर्भपाणिर्विमत्सरः
पितॄणां वल्लभो यस्माद् धरीन्द्राणां शिवस्य च पाहि राजत तस्मात्त्वं शोकसंसारसागरात्
इत्थं निवेद्य यो दद्याद् रजताचलमुत्तमम् गवामयुतदानस्य फलं प्राप्नोति मानवः
सोमलोके स गन्धर्वैः किंनराप्सरसां गणैः पूज्यमानो वसेद्विद्वान् यावदाभूतसंप्लवम्