सहः कनीयानेतेषाम् उदारः कीर्तिवर्धनः भावनास् तत्र देवाः स्युर् ऊर्जाः सप्तर्षयः स्मृताः
कौकुरुण्डिश्च दाल्भ्यश्च शङ्गः प्रवहणः शिवः सितश्च सस्मितश्चैव सप्तैते योगवर्धनाः
मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम् कविः पृथुस् तथैवाग्निर् अकपिः कपिरेव च
तथैव जल्पधीमानौ मुनयः सप्त तामसे साध्या देवगणा यत्र कथितास्तामसे ऽन्तरे
अकल्मषस् तथा धन्वी तपोमूलस्तपोधनः तपोरतिस्तपस्यश्च तपोद्युतिपरंतपौ
तपोभागी तपोयोगी धर्माचाररताः सदा तामसस्य सुताः सर्वे दश वंशविवर्धनाः
पञ्चमस्य मनोस् तद्वद् रैवतस्यान्तरं शृणु देवबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः देवाश्चाभूतरजसस् तथा प्रकृतयः शुभाः
अरुणस् तत्त्वदर्शी च वित्तवान्हव्यपः कपिः युक्तो निरुत्सुकः सत्त्वो निर्मोहो ऽथ प्रकाशकः
धर्मवीर्यबलोपेता दशैते रैवतात्मजाः भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च
विवस्वानतिनामा च षष्ठे सप्तर्षयो ऽपरे चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः
ऋभवो ऽथ ऋभाद्याश् च वारिमूला दिवौकसः चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्च योनयः
रुरुप्रभृतयस्तद्वच् चाक्षुषस्य सुता दश प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु
अन्तरं चाक्षुषं चैतन् मया ते परिकीर्तितम् सप्तमं तत्प्रवक्ष्यामि यद्वैवस्वतमुच्यते
अत्रिश् चैव वसिष्ठश्च कश्यपो गौतमस्तथा भरद्वाजस्तथा योगी विश्वामित्रः प्रतापवान्
जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम्
साध्या विश्वे च रुद्राश्च मरुतो वसवो ऽश्विनौ आदित्याश्च सुरास्तद्वत् सप्त देवगणाः स्मृताः
इक्ष्वाकुप्रमुखाश्चास्य दश पुत्राः स्मृता भुवि मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम् सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम्
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः
धृतिर् वरीयान् यवसः सुवर्णो वष्टिरेव च चरिष्णुर् ईड्यः सुमतिर् वसुः शुक्रश्च वीर्यवान्
भविष्या दश सावर्णेर् मनोः पुत्राः प्रकीर्तिताः रौच्यादयस्तथान्ये ऽपि मनवः संप्रकीर्तिताः
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति मनुर् भूतिसुतस् तद्वद् भौत्यो नाम भविष्यति
ततस्तु मेरुसावर्णिर् ब्रह्मसूनुर् मनुः स्मृतः ऋतश्च ऋतधामा च विष्वक्सेनो मनुस् तथा
अतीतानागताश्चैते मनवः परिकीर्तिताः षडूनं युगसाहस्रम् एभिर् व्याप्तं नराधिप
स्वे स्वे ऽन्तरे सर्वमिदम् उत्पाद्य सचराचरम् कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सहा
एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः
बहुभिर् धारिणी भुक्ता भूपालैः श्रूयते पुरा पार्थिवाः पृथिवीयोगात् पृथिवी कस्य योगतः
किम् अर्थं च कृता संज्ञा भूमेः किं पारिभाषिकी गौर् इतीयं च विख्याता सूत कस्माद्ब्रवीहि नः
वंशे स्वायम्भुवस्यासीद् अङ्गो नाम प्रजापतिः मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा