ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् यस्य प्रदानाद्भवनं वैरिञ्चं याति मानवः
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः तदर्धेनाधमस्तद्वद् अल्पवित्तो ऽपि शक्तितः दद्यादेकपलादूर्ध्वं यथाशक्त्या विमत्सरः
धान्यपर्वतवत्सर्वं विदध्यान्मुनिपुंगव विष्कम्भशैलास्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत्
नमस्ते ब्रह्मबीजाय ब्रह्मगर्भाय ते नमः यस्मादनन्तफलदस् तस्मात्पाहि शिलोच्चय
यस्मादग्नेरपत्यं त्वं यस्मात्पुण्यं जगत्पते हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम
अनेन विधिना यस्तु दद्यात्कनकपर्वतम् स याति परमं ब्रह्मलोकमानन्दकारकम् तत्र कल्पशतं तिष्ठेत् ततो याति परां गतिम्
अतः परं प्रवक्ष्यामि तिलशैलं विधानतः यत्प्रदानान्नरो याति विष्णुलोकं सनातनम्
उत्तमो दशभिर् द्रोणैर् मध्यमः पञ्चभिः स्मृतः त्रिभिः कनिष्ठो विप्रेन्द्र तिलशैलः प्रकीर्तितः
पूर्ववच्चापरान्सर्वान् विष्कम्भानभितो गिरीन् दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनिपुंगव
यस्मान्मधुवधे विष्णोर् देहस्वेदसमुद्भवाः तिलाः कुशाश्च माषाश्च तस्माच्छान्त्यै भवत्विह
हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम् भवादुद्धर शैलेन्द्र तिलाचल नमो ऽस्तु ते
इत्यामन्त्र्य च यो दद्यात् तिलाचलमनुत्तमम् स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम्
दीर्घायुष्यं समाप्नोति पुत्रपौत्रैश्च मोदते पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत्
अथातः सम्प्रवक्ष्यामि कार्पासाचलमुत्तमम् यत्प्रदानान्नरो नित्यम् आप्नोति परमं पदम्
कार्पासपर्वतस् तद्वद् विंशद्भारैर् इहोत्तमः दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः भारेणाल्पधनो दद्याद् वित्तशाठ्यविवर्जितः
धान्यपर्वतवत्सर्वम् आसाद्य मुनिपुंगव प्रभातायां तु शर्वर्यां दद्यादिदमुदीरयेत्
त्वमेवावरणं यस्माल् लोकानामिह सर्वदा कार्पासाद्रे नमस्तुभ्यम् अघौघध्वंसनो भव
इति कार्पासशैलेन्द्रं यो दद्याच्छर्वसंनिधौ रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह
अतः परं प्रवक्ष्यामि घृताचलमनुत्तमम् तेजो ऽमृतमयं दिव्यं महापातकनाशनम्
विंशत्या घृतकुम्भानाम् उत्तमः स्याद्घृताचलः दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः
अल्पवित्तो ऽपि यः कुर्याद् द्वाभ्यामिह विधानतः विष्कम्भपर्वतांस्तद्वच् चतुर्भागेण कल्पयेत्
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् कारयेत्संहतानुच्चान् यथाशोभं विधानतः
वेष्टयेच्छुक्लवासोभिर् इक्षुदण्डफलादिकैः धान्यपर्वतवच्छेषं विधानमिह पठ्यते
अधिवासनपूर्वं च तद्वद्धोमसुरार्चनम् प्रभातायां तु शर्वर्यां गुरवे तं निवेदयेत् विष्कम्भपर्वतांस्तद्वद् ऋत्विग्भ्यः शान्तमानसः
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः तस्माद्धृतार्चिर्विश्वात्मा प्रीयतामत्र शंकरः
यस्मात्तेजोमयं ब्रह्म घृते तद्विद्ध्यवस्थितम् घृतपर्वतरूपेण तस्मात्त्वं पाहि नो ऽनिशम्
अनेन विधिना दद्याद् घृताचलमनुत्तमम् महापातकयुक्तो ऽपि लोकमाप्नोति शांकरम्
हंससारसयुक्तेन किङ्किणीजालमालिना विमानेनाप्सरोभिश्च सिद्धविद्याधरैर् वृतः विहरेत्पितृभिः सार्धं यावदाभूतसंप्लवम्
अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः