गन्धर्ववनशोभावान् अतः कीर्तिर्दृढास्तु मे यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च
हिरण्मयाश्वत्थशिरास् तस्मात्पुष्टिर्ध्रुवास्तु मे उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च
सुपार्श्व राजसे नित्यम् अतः श्रीरक्षयास्तु मे एवमामन्त्र्य तान्सर्वान् प्रभाते विमले पुनः
स्नात्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् विष्कम्भपर्वतान्दद्याद् ऋत्विग्भ्यः क्रमशो मुने
गाश्च दद्याच्चतुर्विंशत् यथवा दश नारद नव सप्त तथाष्टौ वा पञ्च दद्याद् अशक्तिमान्
एकापि गुरवे देया कपिला च पयस्विनी पर्वतानामशेषाणाम् एष एव विधिः स्मृतः
त एव पूजने मन्त्रास् त एवोपस्करा मताः ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वदा
स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते उपवासी भवेन्नित्यम् अशक्ते नक्तमिष्यते
विधानं सर्वशैलानां क्रमशः शृणु नारद दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम्
अन्नं ब्रह्म यतः प्रोक्तम् अन्ने प्राणाः प्रतिष्ठिताः अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते
अन्नमेव ततो लक्ष्मीर् अन्नमेव जनार्दनः धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् मन्वन्तरशतं साग्रं देवलोके महीयते
अप्सरोगणगन्धर्वैर् आकीर्णेन विराजता विमानेन दिवः पृष्ठम् आयाति स्म निषेवित धर्मक्षये राजराज्यम् आप्नोतीह न संशयः
अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम् यत्प्रदानान्नरो लोकान् आप्नोति शिवसंयुतान्
उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः मध्यमः स्यात्तदर्धेन चतुर्भिरधमः स्मृतः
वित्तहीनो यथाशक्त्या द्रोणादूर्ध्वं तु कारयेत् चतुर्थांशेन विष्कम्भपर्वतान्कारयेत्पृथक्
विधानं पूर्ववत्कुर्याद् ब्रह्मादीनां च सर्वदा तद्वद्धेममयान्सर्वांल् लोकपालान्निवेशयेत्
सरांसि कामदेवादींस् तद्वदत्रापि कारयेत् कुर्याज्जागरणं चापि दानमन्त्रान्निबोधत
सौभाग्यसरः सम्भूतो यतो ऽयं लवणो रसः तद्दानकर्तृकत्वेन त्वं मां पाहि नगोत्तम
यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना प्रियं च शिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे
विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्धनम् तस्मात्पर्वतरूपेण पाहि संसारसागरात्
अनेन विधिना यस्तु दद्याल्लवणपर्वतम् उमालोके वसेत्कल्पं ततो याति परां गतिम्
अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् यत्प्रदानान्नरः स्वर्गम् आप्नोति सुरपूजितम्
उत्तमो दशभिर्भारैर् मध्यमः पञ्चभिर्मतः त्रिभिर्भारैः कनिष्ठः स्यात् तदर्धेनाल्पवित्तवान्
तद्वदामन्त्रणं पूजां हेमवृक्षसुरार्चनम् विष्कम्भपर्वतांस्तद्वत् सरांसि वनदेवताः
होमजागरणं तद्वल् लोकपालाधिवासनम् धान्यपर्वतवत् कुर्याद् इमं मन्त्रमुदीरयेत्
यथा देवेषु विश्वात्मा प्रवरो ऽयं जनार्दनः सामवेदस्तु वेदानां महादेवस्तु योगिनाम्
प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा तथा रसानां प्रवरः सदैवेक्षुरसो मतः
मम तस्मात्परां लक्ष्मीं गुडपर्वत देहि वै यस्मात्सौभाग्यदायिन्या भ्राता त्वं गुडपर्वत निवासश्चापि पार्वत्यास् तस्माच्छान्तिं प्रयच्छ मे
अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम् पूज्यमानः स गन्धर्वैर् गौरीलोके महीयते