पश्चात् तिलाचलम् अनेकसुगन्धिपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम् आकारयेद्रजतपुष्पवनेन तद्वद् वस्त्रान्वितं दधिसितोदसरस् तथाग्रे
संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवस्त्रम् पुष्पैश्च हेमवटपादपशेखरं तम् आकारयेत् कनकधेनुविराजमानम्
माक्षीकभद्रसरसाथ वनेन तद्वद् रौप्येण भास्वरवता च युतं विधाय होमश्चतुर्भिरथ वेदपुराणविद्भिर् दान्तैर् अनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः
पूर्वेण हस्तमितमत्र विधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च रात्रौ च जागरमनुद्धतगीततूर्यैर् आवाहनं च कथयामि शिलोच्चयानाम्
त्वं सर्वदेवगणधामनिधे विरुद्धम् अस्मद्गृहेष्वमरपर्वत नाशयाशु क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः सम्पूजितः परमभक्तिमता मया हि
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः मूर्तामूर्तात्परं बीजम् अतः पाहि सनातन
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मन्दिरम् रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे
यस्मादशून्यममरैर् नारीभिश्च शिवेन च तस्मान्माम् उद्धराशेषदुःखसंसारसागरात्
एवमभ्यर्च्य तं मेरुं मन्दरं चाभिपूजयेत् यस्माच्चैत्ररथेन त्वं भद्राश्वेन च वर्षतः
शोभसे मन्दर क्षिप्रम् अतस्तुष्टिकरो भव यस्माच्चूडामणिर्जम्बूद्वीपे त्वं गन्धमादन
गन्धर्ववनशोभावान् अतः कीर्तिर्दृढास्तु मे यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च
हिरण्मयाश्वत्थशिरास् तस्मात्पुष्टिर्ध्रुवास्तु मे उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च
सुपार्श्व राजसे नित्यम् अतः श्रीरक्षयास्तु मे एवमामन्त्र्य तान्सर्वान् प्रभाते विमले पुनः
स्नात्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् विष्कम्भपर्वतान्दद्याद् ऋत्विग्भ्यः क्रमशो मुने
गाश्च दद्याच्चतुर्विंशत् यथवा दश नारद नव सप्त तथाष्टौ वा पञ्च दद्याद् अशक्तिमान्
एकापि गुरवे देया कपिला च पयस्विनी पर्वतानामशेषाणाम् एष एव विधिः स्मृतः
त एव पूजने मन्त्रास् त एवोपस्करा मताः ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वदा
स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते उपवासी भवेन्नित्यम् अशक्ते नक्तमिष्यते
विधानं सर्वशैलानां क्रमशः शृणु नारद दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम्
अन्नं ब्रह्म यतः प्रोक्तम् अन्ने प्राणाः प्रतिष्ठिताः अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते
अन्नमेव ततो लक्ष्मीर् अन्नमेव जनार्दनः धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् मन्वन्तरशतं साग्रं देवलोके महीयते
अप्सरोगणगन्धर्वैर् आकीर्णेन विराजता विमानेन दिवः पृष्ठम् आयाति स्म निषेवित धर्मक्षये राजराज्यम् आप्नोतीह न संशयः
अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम् यत्प्रदानान्नरो लोकान् आप्नोति शिवसंयुतान्
उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः मध्यमः स्यात्तदर्धेन चतुर्भिरधमः स्मृतः
वित्तहीनो यथाशक्त्या द्रोणादूर्ध्वं तु कारयेत् चतुर्थांशेन विष्कम्भपर्वतान्कारयेत्पृथक्
विधानं पूर्ववत्कुर्याद् ब्रह्मादीनां च सर्वदा तद्वद्धेममयान्सर्वांल् लोकपालान्निवेशयेत्
सरांसि कामदेवादींस् तद्वदत्रापि कारयेत् कुर्याज्जागरणं चापि दानमन्त्रान्निबोधत
सौभाग्यसरः सम्भूतो यतो ऽयं लवणो रसः तद्दानकर्तृकत्वेन त्वं मां पाहि नगोत्तम
यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना प्रियं च शिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे