मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात् पूर्वेण मुक्ताफलवज्रयुक्तो याग्येन गोमेदकपुष्परागैः
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः श्रीखण्डखण्डैरभितः प्रवालैर् लतान्वितः शुक्तिशिलातलः स्यात्
ब्रह्माथ विष्णुर्भगवान्पुरारिर् दिवाकरो ऽप्यत्र हिरण्मयः स्यात् मूर्धन्यवस्थानममत्सरेण कार्यं त्वनेकैश्च पुनर्द्विजौघैः
चत्वारि शृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतः स्यात् तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणैश्च दिक्षु
शुक्लाम्बराण्यम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनाली
रौप्यान्महेन्द्रप्रमुखांस् तथाष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण नानाफलाली च समन्ततः स्यान् मनोरमं माल्यविलेपनं च
वितानकं चोपरि पञ्चवर्णम् अम्लानपुष्पाभरणं सितं च इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन् क्रमेण
तुरीयभागेण चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यान् पूर्वेण मन्दरमनेकफलावलीभिर् युक्तं यवैः कनकभद्रकदम्बचिह्नैः
कामेन काञ्चनमयेन विराजमानम् आकारयेत्कुसुमवस्त्रविलेपनाढ्यम् क्षीरारुणोदसरसाथ वनेन चैवं रौप्येण शक्तिघटितेन विराजमानम्
याम्येन गन्धमदनश्च निवेशनीयो गोधूमसंचयमयः कलधौतयुक्तः हैमेन यज्ञपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात्
पश्चात् तिलाचलम् अनेकसुगन्धिपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम् आकारयेद्रजतपुष्पवनेन तद्वद् वस्त्रान्वितं दधिसितोदसरस् तथाग्रे
संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवस्त्रम् पुष्पैश्च हेमवटपादपशेखरं तम् आकारयेत् कनकधेनुविराजमानम्
माक्षीकभद्रसरसाथ वनेन तद्वद् रौप्येण भास्वरवता च युतं विधाय होमश्चतुर्भिरथ वेदपुराणविद्भिर् दान्तैर् अनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः
पूर्वेण हस्तमितमत्र विधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च रात्रौ च जागरमनुद्धतगीततूर्यैर् आवाहनं च कथयामि शिलोच्चयानाम्
त्वं सर्वदेवगणधामनिधे विरुद्धम् अस्मद्गृहेष्वमरपर्वत नाशयाशु क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः सम्पूजितः परमभक्तिमता मया हि
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः मूर्तामूर्तात्परं बीजम् अतः पाहि सनातन
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मन्दिरम् रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे
यस्मादशून्यममरैर् नारीभिश्च शिवेन च तस्मान्माम् उद्धराशेषदुःखसंसारसागरात्
एवमभ्यर्च्य तं मेरुं मन्दरं चाभिपूजयेत् यस्माच्चैत्ररथेन त्वं भद्राश्वेन च वर्षतः
शोभसे मन्दर क्षिप्रम् अतस्तुष्टिकरो भव यस्माच्चूडामणिर्जम्बूद्वीपे त्वं गन्धमादन
गन्धर्ववनशोभावान् अतः कीर्तिर्दृढास्तु मे यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च
हिरण्मयाश्वत्थशिरास् तस्मात्पुष्टिर्ध्रुवास्तु मे उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च
सुपार्श्व राजसे नित्यम् अतः श्रीरक्षयास्तु मे एवमामन्त्र्य तान्सर्वान् प्रभाते विमले पुनः
स्नात्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् विष्कम्भपर्वतान्दद्याद् ऋत्विग्भ्यः क्रमशो मुने
गाश्च दद्याच्चतुर्विंशत् यथवा दश नारद नव सप्त तथाष्टौ वा पञ्च दद्याद् अशक्तिमान्
एकापि गुरवे देया कपिला च पयस्विनी पर्वतानामशेषाणाम् एष एव विधिः स्मृतः
त एव पूजने मन्त्रास् त एवोपस्करा मताः ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वदा
स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते उपवासी भवेन्नित्यम् अशक्ते नक्तमिष्यते
विधानं सर्वशैलानां क्रमशः शृणु नारद दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम्
अन्नं ब्रह्म यतः प्रोक्तम् अन्ने प्राणाः प्रतिष्ठिताः अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते