चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर्धनदस्य च लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे
स्वधा या पितृमुख्याणां स्वाहा यज्ञभुजां च या सर्वपापहरा धेनुस् तस्माच्छान्तिं प्रयच्छ मे
एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् विधानमेतद्धेनूनां सर्वासाम् अभिपठ्यते
यास्ताः पापविनाशिन्यः पठ्यन्ते दश धेनवः तासां स्वरूपं वक्ष्यामि नामानि च नराधिप
प्रथमा गुडधेनुः स्याद् घृतधेनुस् तथापरा तिलधेनुस्तृतीया तु चतुर्थी जलसंज्ञिता
क्षीरधेनुश्च विख्याता मधुधेनुस्तथा परा सप्तमी शर्कराधेनुर् दधिधेनुस्तथाष्टमी रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः
कुम्भाः स्युर्द्रवधेनूनाम् इतरासां तु राशयः सुवर्णधेनुमप्यत्र केचिदिच्छन्ति भानवः
नवनीतेन रत्नैश्च तथान्ये तु महर्षयः एतदेवंविधानं स्यात् त एवोपस्कराः स्मृताः
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः
गुडधेनुप्रसङ्गेन सर्वास्तावन्मयोदिताः अशेषयज्ञफलदाः सर्वाः पापहराः शुभाः
व्रतानामुत्तमं यस्माद् विशोकद्वादशीव्रतम् तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते
अयने विषुवे पुण्ये व्यतीपाते ऽथवा पुनः गुडधेन्वादयो देयास् तूपरागादिपर्वसु
विशोकद्वादशी चैषा पुण्या पापहरा शुभा यामुपोष्य नरो याति तद्विष्णोः परमं पदम्
इह लोके च सौभाग्यम् आयुरारोग्यमेव च वैष्णवं पुरमाप्नोति मरणे च स्मरन्हरिम्
नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित् न शोकदुःखदौर्गत्यं तस्य संजायते नृप
नारी वा कुरुते या तु विशोकद्वादशीव्रतम् नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात्
तस्मादग्रे हरेर्नित्यम् अनन्तं गीतवादनम् कर्तव्यं भूतिकामेन भक्त्या तु परया नृप
इति पठति य इत्थं यः शृणोतीह सम्यङ् मधुमुरनरकारेर् अर्चनं यश्च पश्येत् मतिमाप च जनानां यो ददातीन्द्रलोके वसति स विबुधौघैः पूज्यते कल्पमेकम्
भगवञ्छ्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् यदक्षयं परे लोके देवर्षिगणपूजितम्
मेरोः प्रदानं वक्ष्यामि दशधा मुनिपुंगव यत्प्रदानान्नरो लोकान् आप्नोति सुरपूजितान्
पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च न तत्फलमधीतेषु कृतेष्विह यदश्नुते
तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात् प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः
सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः राजतो नवमस्तद्वद् दशमः शर्कराचलः
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः अयने विषुवे पुण्ये व्यतीपाते दिनक्षये
शुक्लपक्षे तृतीयायाम् उपरागे शशिक्षये विवाहोत्सवयज्ञेषु द्वादश्यामथ वा पुनः
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः धान्यशैलादयो देया यथाशास्त्रं विजानता
तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् प्रागुदक्प्रवणं तद्वत् प्राङ्मुखं च विधानतः
गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान् तन्मध्ये पर्वतं कुर्याद् विष्कम्भपर्वतान्वितम्
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः मध्यमः पञ्चशतिकः कनिष्ठः स्यात् त्रिभिः शतैः