ततस्तु गीतवाद्येन रात्रौ जागरणे कृते प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत्
भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः भुक्त्वा श्रुत्वा पुराणानि तद्दिनं चातिवाहयेत्
अनेन विधिना सर्वं मासि मासि समाचरेत् व्रतान्ते शयनं दद्याद् गुडधेनुसमन्वितम् सोपधानकविश्रामं सास्तरावरणं शुभम्
यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति तथा सुरूपतारोग्यम् अशोकश्चास्तु मे सदा
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित् तथा विशोकता मे ऽस्तु भक्तिरग्र्या च केशवे
मन्त्रेणानेन शयनं गुडधेनुसमन्वितम् शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता
उत्पलं करवीरं च बाणमम्लानकुङ्कुमम् केतकी सिन्दुवारं च मल्लिका गन्धपाटला कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा
गुडधेनुविधानं मे समाचक्ष्व जगत्पते किंरूपं केन मन्त्रेण दातव्यं तदिहोच्यताम्
गुडधेनुविधानस्य यद्रूपमिह यत्फलम् तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम्
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः
लघ्वेणकाजिनं तद्वद् वत्सं च परिकल्पयेत् प्राङ्मुखीं कल्पयेद्धेनुम् उदक्पादां सवत्सकाम्
उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयम् वत्सं भारेण कुर्वीत द्वाभ्यां वै मध्यमा स्मृता
अर्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु चतुर्थांशेन वत्सः स्याद् गृहवित्तानुसारतः
धेनुवत्सौ घृतास्यौ च सितसूक्ष्माम्बरावृतौ शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ
सितसूत्रशिरालौ तौ सितकम्बलकम्बलौ ताम्रगण्डकपृष्ठौ तौ सितचामररोमकौ
विद्रुमभ्रूयुगोपेतौ नवनीतस्तनावुभौ क्षौमपुच्छौ कांस्यदोहाव् इन्द्रनीलकतारकौ
सुवर्णशृङ्गाभरणौ राजतैः खुरसंयुतौ नानाफलसमायुक्तौ घ्राणगन्धकरण्डकौ इत्येवं रचयित्वा तौ धूपदीपैरथार्चयेत्
या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु
देहस्था या च रुद्राणी शंकरस्य सदा प्रिया धेनुरूपेण सा देवी मम पापं व्यपोहतु
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये
चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर्धनदस्य च लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे
स्वधा या पितृमुख्याणां स्वाहा यज्ञभुजां च या सर्वपापहरा धेनुस् तस्माच्छान्तिं प्रयच्छ मे
एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् विधानमेतद्धेनूनां सर्वासाम् अभिपठ्यते
यास्ताः पापविनाशिन्यः पठ्यन्ते दश धेनवः तासां स्वरूपं वक्ष्यामि नामानि च नराधिप
प्रथमा गुडधेनुः स्याद् घृतधेनुस् तथापरा तिलधेनुस्तृतीया तु चतुर्थी जलसंज्ञिता
क्षीरधेनुश्च विख्याता मधुधेनुस्तथा परा सप्तमी शर्कराधेनुर् दधिधेनुस्तथाष्टमी रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः
कुम्भाः स्युर्द्रवधेनूनाम् इतरासां तु राशयः सुवर्णधेनुमप्यत्र केचिदिच्छन्ति भानवः
नवनीतेन रत्नैश्च तथान्ये तु महर्षयः एतदेवंविधानं स्यात् त एवोपस्कराः स्मृताः
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः
गुडधेनुप्रसङ्गेन सर्वास्तावन्मयोदिताः अशेषयज्ञफलदाः सर्वाः पापहराः शुभाः