परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात् तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम्
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् दशम्यां लघुभुग्विद्वान् आरभेन्नियमेन तु
उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम् एकादश्यां निराहारः समभ्यर्च्य तु केशवम् श्रियं वाभ्यर्च्य विधिवद् भोक्ष्यामि त्वपरे ऽहनि
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजलेन तु शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः
विशोकाय नमः पादौ जङ्घे च वरदाय वै श्रीशाय जानुनी तद्वद् ऊरू च जलशायिने
कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम् दामोदरायेत्युदरं पार्श्वे च विपुलाय वै
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै श्रीधराय विभोर्वक्षः करौ मधुजिते नमः
चक्रिणे वामबाहुं च दक्षिणं गदिने नमः वैकुण्ठाय नमः कण्ठम् आस्यं यज्ञमुखाय वै
नासामशोकनिधये वासुदेवाय चाक्षिणी ललाटं वामनायेति हरये च पुनर्भ्रुवौ
अलकान्माधवायेति किरीटं विश्वरूपिणे नमः सर्वात्मने तद्वच् छिर इत्यभिपूजयेत्
एवं सम्पूज्य गोविन्दं फलमाल्यानुलेपनैः ततस्तु मण्डलं कृत्वा स्थण्डिलं कारयेन्मुदा
चतुरस्रं समन्ताच्च रत्निमात्रमुदक्प्लवम् श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम्
अङ्गुलेनोच्छ्रिता वप्रास् तद्विस्तारस्तु द्व्यङ्गुलः स्थण्डिलस्योपरिष्टाच्च भित्तिरष्टाङ्गुला भवेत्
नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत् स्थण्डिले शूर्पमारोप्य लक्ष्मीमित्यर्चयेद्बुधः
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै नमः पुष्ट्यै नमस्तुष्ट्यै वृष्ट्यै हृष्ट्यै नमो नमः
विशोका दुःखनाशाय विशोका वरदास्तु मे विशोका चास्तु सम्पत्त्यै विशोका सर्वसिद्धये
ततः शुक्लाम्बरैः शूर्पं वेष्ट्य सम्पूजयेत्फलैः वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च
रजनीषु च सर्वासु पिबेद्दर्भोदकं बुधः ततस्तु गीतनृत्यादि कारयेत्सकलां निशाम्
यामत्रये व्यतीते तु सुप्त्वाप्युत्थाय मानवः अभिगम्य च विप्राणां मिथुनानि तदार्चयेत्
शक्तितस् त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः शयनस्थानि पूज्यानि नमो ऽस्तु जलशायिने
ततस्तु गीतवाद्येन रात्रौ जागरणे कृते प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत्
भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः भुक्त्वा श्रुत्वा पुराणानि तद्दिनं चातिवाहयेत्
अनेन विधिना सर्वं मासि मासि समाचरेत् व्रतान्ते शयनं दद्याद् गुडधेनुसमन्वितम् सोपधानकविश्रामं सास्तरावरणं शुभम्
यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति तथा सुरूपतारोग्यम् अशोकश्चास्तु मे सदा
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित् तथा विशोकता मे ऽस्तु भक्तिरग्र्या च केशवे
मन्त्रेणानेन शयनं गुडधेनुसमन्वितम् शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता
उत्पलं करवीरं च बाणमम्लानकुङ्कुमम् केतकी सिन्दुवारं च मल्लिका गन्धपाटला कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा
गुडधेनुविधानं मे समाचक्ष्व जगत्पते किंरूपं केन मन्त्रेण दातव्यं तदिहोच्यताम्
गुडधेनुविधानस्य यद्रूपमिह यत्फलम् तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम्
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः