एतदेव व्रतान्ते तु निधाय कलशोपरि गोभिर्विभवतः सार्धं दातव्यं भूतिमिच्छता
नमो मन्दारनाथाय मन्दारभवनाय च त्वं रवे तारयस्वास्मान् संसारभयसागरात्
अनेन विधिना यस्तु कुर्यान्मन्दारसप्तमीम् विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते
इमामघौघपटलभीषणध्वान्तदीपिकाम् गच्छन्प्रगृह्य संसारे सर्वार्थांश्च लभेन्नरः
मन्दारसप्तमीम् एताम् ईप्सितार्थफलप्रदाम् यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीम् यामुपोष्य नरो रोगशोकदुःखैः प्रमुच्यते
पुण्येन चाश्वयुजे मासि कृतस्नानजपः शुचिः वाचयित्वा ततो विप्रान् आरभेच्छुभसप्तमीम्
कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः नमामि सूर्यसम्भूताम् अशेषभुवनालयाम् त्वामहं शुभकल्याणशरीरां सर्वसिद्धये
अथ कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतम् काञ्चनं वृषभं तद्वद् गन्धमाल्यगुडान्वितैः
फलैर् नानाविधैर् भक्ष्यैर् घृतपायससंयुतैः दद्याद्द्विकालवेलायाम् अर्यमा प्रीयतामिति
पञ्चगव्यं च संप्राश्य स्वपेद्भूमौ विमत्सरः ततः प्रभाते संजाते भक्त्या सम्पूजयेद्द्विजान्
अनेन विधिना दद्यान् मासि मासि सदा नरः वाससा वृषभं हैमं तद्वद्गां काञ्चनोद्भवाम्
संवत्सरान्ते शयनम् इक्षुदण्डगुडान्वितम् सोपधानकविश्रामं भाजनासनसंयुतम्
ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति
अनेन विधिना विद्वान् कुर्याद्यः शुभसप्तमीम् तस्य श्रीर्विपुला कीर्तिर् भवेज्जन्मनि जन्मनि
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम् कल्पादाववतीर्णस्तु सप्तद्वीपाधिपो भवेत्
ब्रह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च नाशायालमियं पुण्या पठ्यते शुभसप्तमी
इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसङ्गादपि दीयमानम् सो ऽप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम्
यावत्समाः सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम् स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः
किम् अभीष्टवियोगशोकसंघादलम् उद्धर्तुमुपोषणं व्रतं वा विभवोद्भवकारि भूतले ऽस्मिन् भवभीतेरपि सूदनं च पुंसः
परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात् तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम्
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् दशम्यां लघुभुग्विद्वान् आरभेन्नियमेन तु
उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम् एकादश्यां निराहारः समभ्यर्च्य तु केशवम् श्रियं वाभ्यर्च्य विधिवद् भोक्ष्यामि त्वपरे ऽहनि
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजलेन तु शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः
विशोकाय नमः पादौ जङ्घे च वरदाय वै श्रीशाय जानुनी तद्वद् ऊरू च जलशायिने
कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम् दामोदरायेत्युदरं पार्श्वे च विपुलाय वै
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै श्रीधराय विभोर्वक्षः करौ मधुजिते नमः
चक्रिणे वामबाहुं च दक्षिणं गदिने नमः वैकुण्ठाय नमः कण्ठम् आस्यं यज्ञमुखाय वै
नासामशोकनिधये वासुदेवाय चाक्षिणी ललाटं वामनायेति हरये च पुनर्भ्रुवौ
अलकान्माधवायेति किरीटं विश्वरूपिणे नमः सर्वात्मने तद्वच् छिर इत्यभिपूजयेत्