अथातः सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम् सर्वकामप्रदां रम्यां नाम्ना मन्दारसप्तमीम्
माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः
विप्रान् सम्पूजयित्वा तु मन्दारं प्राशयेन्निशि ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान्
भोजयेच्छक्तितः कृत्वा मन्दारकुसुमाष्टकम् सौवर्णं पुरुषं तद्वत् पद्महस्तं सुशोभनम्
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रे ऽष्टपत्त्रकम् हैममन्दारकुसुमैर् भास्करायेति पूर्वतः
नमस्कारेण तद्वच्च सूर्यायेत्यानले दले दक्षिणे तद्वदर्काय तथार्यम्णे च नैरृते
पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे पूष्णेत्युत्तरतः पूज्यम् आनन्दायेत्यतः परम्
कर्णिकायां च पुरुषं सर्वात्मन इति न्यसेत् शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही
अनेन विधिना सर्वं सप्तम्यां मासि मासि च कुर्यात्संवत्सरं यावद् वित्तशाठ्यविवर्जितः
एतदेव व्रतान्ते तु निधाय कलशोपरि गोभिर्विभवतः सार्धं दातव्यं भूतिमिच्छता
नमो मन्दारनाथाय मन्दारभवनाय च त्वं रवे तारयस्वास्मान् संसारभयसागरात्
अनेन विधिना यस्तु कुर्यान्मन्दारसप्तमीम् विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते
इमामघौघपटलभीषणध्वान्तदीपिकाम् गच्छन्प्रगृह्य संसारे सर्वार्थांश्च लभेन्नरः
मन्दारसप्तमीम् एताम् ईप्सितार्थफलप्रदाम् यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीम् यामुपोष्य नरो रोगशोकदुःखैः प्रमुच्यते
पुण्येन चाश्वयुजे मासि कृतस्नानजपः शुचिः वाचयित्वा ततो विप्रान् आरभेच्छुभसप्तमीम्
कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः नमामि सूर्यसम्भूताम् अशेषभुवनालयाम् त्वामहं शुभकल्याणशरीरां सर्वसिद्धये
अथ कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतम् काञ्चनं वृषभं तद्वद् गन्धमाल्यगुडान्वितैः
फलैर् नानाविधैर् भक्ष्यैर् घृतपायससंयुतैः दद्याद्द्विकालवेलायाम् अर्यमा प्रीयतामिति
पञ्चगव्यं च संप्राश्य स्वपेद्भूमौ विमत्सरः ततः प्रभाते संजाते भक्त्या सम्पूजयेद्द्विजान्
अनेन विधिना दद्यान् मासि मासि सदा नरः वाससा वृषभं हैमं तद्वद्गां काञ्चनोद्भवाम्
संवत्सरान्ते शयनम् इक्षुदण्डगुडान्वितम् सोपधानकविश्रामं भाजनासनसंयुतम्
ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति
अनेन विधिना विद्वान् कुर्याद्यः शुभसप्तमीम् तस्य श्रीर्विपुला कीर्तिर् भवेज्जन्मनि जन्मनि
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम् कल्पादाववतीर्णस्तु सप्तद्वीपाधिपो भवेत्
ब्रह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च नाशायालमियं पुण्या पठ्यते शुभसप्तमी
इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसङ्गादपि दीयमानम् सो ऽप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम्
यावत्समाः सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम् स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः
किम् अभीष्टवियोगशोकसंघादलम् उद्धर्तुमुपोषणं व्रतं वा विभवोद्भवकारि भूतले ऽस्मिन् भवभीतेरपि सूदनं च पुंसः