अनेन विधिना सर्वं मासि मासि समाचरेत् संवत्सरान्ते शयनं शर्कराकलशान्वितम्
सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् गृहं च शक्तिमान्दद्यात् समस्तोपस्करान्वितम्
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा दशभिर्वाथ निष्केण तदर्धेनापि शक्तितः
सुवर्णाश्वः प्रदातव्यः पूर्ववन्मन्त्रवादनम् न वित्तशाठ्यं कुर्वीत कुर्वन्दोषं समश्नुते
अमृतं पिबतो वक्त्रात् सूर्यस्यामृतबिन्दवः निपेतुर्ये धरण्यां तु शालिमुद्गेक्षवः स्मृताः
शर्करा तु परा तस्माद् इक्षुसारो ऽमृतात्मवान् इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः
शर्करासप्तमी चेयं वाजिमेधफलप्रदा सर्वदुष्टप्रशमनी पुत्रपौत्रप्रवर्धिनी
यः कुर्यात्परया भक्त्या स वै सद्गतिमाप्नुयात् कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम्
इदमनघं शृणोति यः स्मरेद्वा परिपठतीह दिवाकरस्य लोके मतिमपि च ददाति सो ऽपि देवैर् अमरवधूजनमालयाभिपूज्यः
अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम् यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः
वसन्तामलसप्तम्यां स्नातः सन्गौरसर्षपैः तिलपात्रे च सौवर्णे विधाय कमलं शुभम्
वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैः समर्चयेत् नमः कमलहस्ताय नमस्ते विश्वधारिणे
दिवाकर नमस्तुभ्यं प्रभाकर नमो ऽस्तु ते ततो द्विकालवेलायाम् उदकुम्भसमन्विताम्
विप्राय दद्यात्सम्पूज्य वस्त्रमाल्यविभूषणैः शक्त्या च कपिलां दद्याद् अलंकृत्य विधानतः
अहोरात्रे गते पश्चाद् अष्टम्यां भोजयेद्द्विजान् यथाशक्त्यथ भुञ्जीत मांसतैलविवर्जितम्
अनेन विधिना शुक्लसप्तम्यां मासि मासि च सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः
व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् गां च दद्यात्स्वशक्त्या तु सुवर्णाढ्यां पयस्विनीम्
भाजनासनदीपादीन् दद्याद् इष्टानुपस्करान् अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम् लक्ष्मीमनन्तामभ्येति सूर्यलोके महीयते
कल्पे कल्पे ततो लोकान् सप्तगत्वा पृथक्पृथक् अप्सरोभिः परिवृतस् ततो याति परां गतिम्
यः पश्यतीदं शृणुयाच्च मर्त्यः पठेच्च भक्त्याथ मतिं ददाति सो ऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकभाक्स्यात्
अथातः सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम् सर्वकामप्रदां रम्यां नाम्ना मन्दारसप्तमीम्
माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः
विप्रान् सम्पूजयित्वा तु मन्दारं प्राशयेन्निशि ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान्
भोजयेच्छक्तितः कृत्वा मन्दारकुसुमाष्टकम् सौवर्णं पुरुषं तद्वत् पद्महस्तं सुशोभनम्
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रे ऽष्टपत्त्रकम् हैममन्दारकुसुमैर् भास्करायेति पूर्वतः
नमस्कारेण तद्वच्च सूर्यायेत्यानले दले दक्षिणे तद्वदर्काय तथार्यम्णे च नैरृते
पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे पूष्णेत्युत्तरतः पूज्यम् आनन्दायेत्यतः परम्
कर्णिकायां च पुरुषं सर्वात्मन इति न्यसेत् शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही
अनेन विधिना सर्वं सप्तम्यां मासि मासि च कुर्यात्संवत्सरं यावद् वित्तशाठ्यविवर्जितः