मार्गशीर्षे शुभे मासि सप्तम्यां नियतव्रतः तामुपोष्याथ कमलं कारयित्वा तु काञ्चनम्
शर्करासंयुतं दद्याद् ब्राह्मणाय कुटुम्बिने रविं काञ्चनकं कृत्वा पलस्यैकस्य धर्मवित् दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति
भक्त्या तु विप्रान्सम्पूज्य चाष्टम्यां क्षीरभोजनम् दत्त्वा कुर्यात्फलयुतं यावत्स्यात्कृष्णेसप्तमी
तामप्युपोष्य विधिवद् अनेनैव क्रमेण तु तद्वद्धैमफलं दत्त्वा सुवर्णकमलान्वितम्
शर्करापात्रसंयुक्तं वस्त्रमाल्यसमन्वितम् संवत्सरं च तेनैव विधिनोभयसप्तमीम्
उपोष्य दत्त्वा क्रमशः सूर्यमन्त्रमुदीरयेत् भानुरर्को रविर्ब्रह्मा सूर्यः शक्रो हरिः शिवः श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति
प्रतिमासं च सप्तम्याम् एकैकं नाम कीर्तयेत् प्रतिपक्षं फलत्यागम् एतत्कुर्वन्समाचरेत्
व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः शर्कराकलशं दद्याद् धेमपद्मदलान्वितम्
यथा न विफलाः कामास् त्वद्भक्तानां सदा रवे तथानन्तफलावाप्तिर् अस्तु मे सप्तजन्मसु
इमामनन्तफलदां यः कुर्यात्फलसप्तमीम् सर्वपापविशुद्धात्मा सूर्यलोके महीयते
सुरापानादिकं किंचिद् यदत्रामुत्र वा कृतम् तत्सर्वं नाशमायाति यः कुर्यात्फलसप्तमीम्
कुर्वाणः सप्तमीं चेमां सततं रोगवर्जितः भूतान्भव्यांश्च पुरुषांस् तारयेदेकविंशतिम् यः शृणोति पठेद्वापि सो ऽपि कल्याणभाग्भवेत्
शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम् आयुरारोग्यमैश्वर्यं ययानन्तं प्रजायते
माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः
स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम् तस्मिन्नमः सवित्रे तु गन्धधूपौ निवेदयेत्
स्थापयेदुदकुम्भं च शर्करापात्रसंयुतम् शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः सुवर्णेन समायुक्तं मन्त्रेणानेन पूजयेत्
विश्ववेदमयो यस्माद् वेदवादीति पठ्यसे सर्वस्यामृतमेव त्वम् अतः शान्तिं प्रयच्छ मे
पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च
अहोरात्रे गते पश्चाद् अष्टम्यां कृतनैत्यकः तत्सर्वं विदुषे तद्वद् ब्राह्मणाय निवेदयेत्
भोजयेच्छक्तितो विप्राञ् छर्कराघृतपायसैः भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः
अनेन विधिना सर्वं मासि मासि समाचरेत् संवत्सरान्ते शयनं शर्कराकलशान्वितम्
सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् गृहं च शक्तिमान्दद्यात् समस्तोपस्करान्वितम्
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा दशभिर्वाथ निष्केण तदर्धेनापि शक्तितः
सुवर्णाश्वः प्रदातव्यः पूर्ववन्मन्त्रवादनम् न वित्तशाठ्यं कुर्वीत कुर्वन्दोषं समश्नुते
अमृतं पिबतो वक्त्रात् सूर्यस्यामृतबिन्दवः निपेतुर्ये धरण्यां तु शालिमुद्गेक्षवः स्मृताः
शर्करा तु परा तस्माद् इक्षुसारो ऽमृतात्मवान् इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः
शर्करासप्तमी चेयं वाजिमेधफलप्रदा सर्वदुष्टप्रशमनी पुत्रपौत्रप्रवर्धिनी
यः कुर्यात्परया भक्त्या स वै सद्गतिमाप्नुयात् कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम्
इदमनघं शृणोति यः स्मरेद्वा परिपठतीह दिवाकरस्य लोके मतिमपि च ददाति सो ऽपि देवैर् अमरवधूजनमालयाभिपूज्यः
अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम् यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः