प्रीयतामत्र भगवान् परमात्मा दिवाकरः अनेन विधिना सर्वं मासि मासि व्रतं चरेत्
ततस्त्रयोदशे मासि गा वै दद्यात्त्रयोदश वस्त्रालंकारसंयुक्ताः सुवर्णास्याः पयस्विनीः
एकामपि प्रदद्याद्वा वित्तहीनो विमत्सरः न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः
अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीम् सर्वपापविनिर्मुक्तः सूर्यलोके महीयते आयुरारोग्यमैश्वर्यम् अनन्तमिह जायते
सर्वपापहरा नित्यं सर्वदैवतपूजिता सर्वदुष्टोपशमनी सदा कल्याणसप्तमी
इमामनन्तफलदां यस्तु कल्याणसप्तमीम् शृणोति पठते चेह सर्वपापैः प्रमुच्यते
विशोकसप्तमीं तद्वद् वक्ष्यामि मुनिपुंगव यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते
माघे कृष्णतिलैः स्नात्वा षष्ठ्यां वै शुक्लपक्षतः कृताहारः कृसरया दन्तधावनपूर्वकम् उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः कृत्वा तु काञ्चनं पद्मम् अर्कायेति च पूजयेत् करवीरेण रक्तेन रक्तवस्त्रयुगेन च
यथा विशोकं भुवनं त्वयैवादित्य सर्वदा तथा विशोकता मे ऽस्तु त्वद्भक्तिः प्रतिजन्म च
एवं सम्पूज्य षष्ठ्यां तु भक्त्या सम्पूजयेद्द्विजान् सुप्त्वा संप्राश्य गोमूत्रम् उत्थाय कृतनैत्यकः
सम्पूज्य विप्रानन्नेन गुडपात्रसमन्वितम् तद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत्
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता
अनेन विधिना सर्वम् उभयोरपि पक्षयोः कृत्वा यावत्पुनर्माघशुक्लपक्षस्य सप्तमी
व्रतान्ते कलशं दद्यात् सुवर्णकमलान्वितम् शय्यां सोपस्करां दद्यात् कपिलां च पयस्विनीम्
अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः विशोकसप्तमीं कुर्यात् स याति परमां गतिम्
यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत् तावन्न शोकमभ्येति रोगदौर्गत्यवर्जितः
यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम् निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति
यः पठेच्छृणुयाद्वापि विशोकाख्यां च सप्तमीम् सो ऽपीन्द्रलोकमाप्नोति न दुःखी जायते क्वचित्
अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम् यामुपोष्य नरः पापाद् विमुक्तः स्वर्गभाग्भवेत्
मार्गशीर्षे शुभे मासि सप्तम्यां नियतव्रतः तामुपोष्याथ कमलं कारयित्वा तु काञ्चनम्
शर्करासंयुतं दद्याद् ब्राह्मणाय कुटुम्बिने रविं काञ्चनकं कृत्वा पलस्यैकस्य धर्मवित् दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति
भक्त्या तु विप्रान्सम्पूज्य चाष्टम्यां क्षीरभोजनम् दत्त्वा कुर्यात्फलयुतं यावत्स्यात्कृष्णेसप्तमी
तामप्युपोष्य विधिवद् अनेनैव क्रमेण तु तद्वद्धैमफलं दत्त्वा सुवर्णकमलान्वितम्
शर्करापात्रसंयुक्तं वस्त्रमाल्यसमन्वितम् संवत्सरं च तेनैव विधिनोभयसप्तमीम्
उपोष्य दत्त्वा क्रमशः सूर्यमन्त्रमुदीरयेत् भानुरर्को रविर्ब्रह्मा सूर्यः शक्रो हरिः शिवः श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति
प्रतिमासं च सप्तम्याम् एकैकं नाम कीर्तयेत् प्रतिपक्षं फलत्यागम् एतत्कुर्वन्समाचरेत्
व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः शर्कराकलशं दद्याद् धेमपद्मदलान्वितम्
यथा न विफलाः कामास् त्वद्भक्तानां सदा रवे तथानन्तफलावाप्तिर् अस्तु मे सप्तजन्मसु
इमामनन्तफलदां यः कुर्यात्फलसप्तमीम् सर्वपापविशुद्धात्मा सूर्यलोके महीयते