भक्त्या यस्तु पुनः कुर्याद् एवमङ्गारकाष्टकम् चतुरो वाथ वा तस्य यत्पुण्यं तद्वदामि ते
रूपसौभाग्यसम्पन्नः पुनर्जन्मनि जन्मनि विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्
सप्त कल्पसहस्राणि रुद्रलोके महीयते तस्मात्त्वमपि दैत्येन्द्र व्रतमेतत्समाचर
इत्येवमुक्त्वा भृगुनन्दनो ऽपि जगाम दैत्यश्च चकार सर्वम् त्वं चापि राजन्कुरु सर्वमेतद् यतो ऽक्षयं वेदविदो वदन्ति
तथेति सम्पूज्य स पिप्पलादं वाक्यं चकाराद्भुतवीर्यकर्मा शृणोति यश्चैनमनन्यचेतास् तस्यापि सिद्धिं भगवान्विधत्ते
अथातः शृणु भूपाल प्रतिशुक्रं प्रशान्तये यात्रारम्भे ऽवसाने च तथा शुक्रोदये त्विह
राजते वाथ सौवर्णे कांस्यपात्रे ऽथवा पुनः शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते
विधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम् मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत्
नमस्ते सर्वलोकेश नमस्ते भृगुनन्दन कवे सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमो ऽस्तु ते
एवमस्योदये कुर्वन् यात्रादिषु च भारत सर्वान्कामानवाप्नोति विष्णुलोके महीयते
यावच्छुक्रस्य न हृता पूजा सा माल्यकैः शुभैः वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि तावदन्नं न चाश्नीयात् त्रिभिः कामार्थसिद्धये
तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर सुवर्णपात्रे सौवर्णम् अमरेशपुरोहितम्
पीतपुष्पाम्बरयुतं कृत्वा स्नात्वाथ सर्षपैः पलाशाश्वत्थयोगेन पञ्चगव्यजलेन च
पीताङ्गरागवसनो घृतहोमं तु कारयेत् प्रणम्य च गवा सार्धं ब्राह्मणाय निवेदयेत्
नमस्ते ऽङ्गिरसां नाथ वाक्पते च बृहस्पते क्रूरग्रहैः पीडितानाम् अमृताय नमो नमः
संक्रान्तावस्य कौन्तेय यात्रास्वभ्युदयेषु च कुर्वन्बृहस्पतेः पूजां सर्वान्कामान्समश्नुते
भगवन् भवसंसारसागरोत्तारकारक किंचिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम्
सौरं धर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् विशोकसप्तमीं तद्वत् फलाढ्यां पापनाशिनीम्
शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम् मन्दारसप्तमीं तद्वच् छुभदां शुभसप्तमीम्
सर्वानन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः विधानमासां वक्ष्यामि यथावदनुपूर्वशः
यदा तु शुक्लसप्तम्याम् आदित्यस्य दिनं भवेत् सा तु कल्याणिनी नाम विजया च निगद्यते
प्रातर्गव्येन पयसा स्नानमस्यां समाचरेत् ततः शुक्लाम्बरः पद्मम् अक्षताभिः प्रकल्पयेत्
प्राङ्मुखो ऽष्टदलं मध्ये तद्वद्वृत्तां च कर्णिकाम् पुष्पाक्षताभिर्देवेशं विन्यसेत्सर्वतः क्रमात्
पूर्वेण तपनायेति मार्तण्डायेति चानले याम्ये दिवाकरायेति विधात्र इति नैरृते
पश्चिमे वरुणायेति भास्करायेति चानिले सौम्ये विकर्तनायेति रवये चाष्टमे दले
आदावन्ते च मध्ये च नमो ऽस्तु परमात्मने मन्त्रैरेभिः समभ्यर्च्य नमस्कारान्तदीपितैः
शुक्लवस्त्रैः फलैर्भक्ष्यैर् धूपमाल्यानुलेपनैः स्थण्डिले पूजयेद्भक्त्या गुडेन लवणेन च
ततो व्याहृतिमन्त्रेण विसृजेद्द्विजपुंगवान् शक्तितः पूजयेद्भक्त्या गुडक्षीरघृतादिभिः तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत्
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः कृतस्नानजपो विप्रैः सहैव घृतपायसम्
भुक्त्वा च वेदविदुषे बिडालव्रतवर्जिते घृतपात्रं सकनकं सोदकुम्भं निवेदयेत्