चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः तण्डुलै रक्तशालीयैः पद्मरागैश्च संयुताः
चतुष्कोणेषु तान्कृत्वा फलानि विविधानि च गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत्
सुवर्णशृङ्गीं कपिलाम् अथार्च्य रौप्यैः सुरैः कांस्यदोहां सवत्साम् धुरंधरं रक्तमतीव सौम्यं धान्यानि सप्ताम्बरसंयुतानि
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम् चतुर्भुजं हेममये निविष्टं पात्रे गुडस्योपरि सर्पियुक्ते
समस्तयज्ञाय जितेन्द्रियाय पात्राय शीलान्वयसंयुताय दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दाम्भिकाय समर्पयेद्विप्रवराय भक्त्या कृताञ्जलिः पूर्वमुदीर्य मन्त्रम्
भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः रूपार्थी त्वां प्रपन्नो ऽहं गृहाणार्घ्यं नमो ऽस्तु ते
मन्त्रेणानेन दत्त्वार्घ्यं रक्तचन्दनवारिणा ततो ऽर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः
दद्यात्तेनैव मन्त्रेण भौमं गोमिथुनान्वितम् शय्यां च शक्तितो दद्यात् सर्वोपस्करसंयुताम्
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता
प्रदक्षिणं ततः कृत्वा विसर्ज्य द्विजपुंगवम् नक्तमक्षारलवणम् अश्नीयाद्घृतसंयुतम्
भक्त्या यस्तु पुनः कुर्याद् एवमङ्गारकाष्टकम् चतुरो वाथ वा तस्य यत्पुण्यं तद्वदामि ते
रूपसौभाग्यसम्पन्नः पुनर्जन्मनि जन्मनि विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्
सप्त कल्पसहस्राणि रुद्रलोके महीयते तस्मात्त्वमपि दैत्येन्द्र व्रतमेतत्समाचर
इत्येवमुक्त्वा भृगुनन्दनो ऽपि जगाम दैत्यश्च चकार सर्वम् त्वं चापि राजन्कुरु सर्वमेतद् यतो ऽक्षयं वेदविदो वदन्ति
तथेति सम्पूज्य स पिप्पलादं वाक्यं चकाराद्भुतवीर्यकर्मा शृणोति यश्चैनमनन्यचेतास् तस्यापि सिद्धिं भगवान्विधत्ते
अथातः शृणु भूपाल प्रतिशुक्रं प्रशान्तये यात्रारम्भे ऽवसाने च तथा शुक्रोदये त्विह
राजते वाथ सौवर्णे कांस्यपात्रे ऽथवा पुनः शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते
विधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम् मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत्
नमस्ते सर्वलोकेश नमस्ते भृगुनन्दन कवे सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमो ऽस्तु ते
एवमस्योदये कुर्वन् यात्रादिषु च भारत सर्वान्कामानवाप्नोति विष्णुलोके महीयते
यावच्छुक्रस्य न हृता पूजा सा माल्यकैः शुभैः वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि तावदन्नं न चाश्नीयात् त्रिभिः कामार्थसिद्धये
तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर सुवर्णपात्रे सौवर्णम् अमरेशपुरोहितम्
पीतपुष्पाम्बरयुतं कृत्वा स्नात्वाथ सर्षपैः पलाशाश्वत्थयोगेन पञ्चगव्यजलेन च
पीताङ्गरागवसनो घृतहोमं तु कारयेत् प्रणम्य च गवा सार्धं ब्राह्मणाय निवेदयेत्
नमस्ते ऽङ्गिरसां नाथ वाक्पते च बृहस्पते क्रूरग्रहैः पीडितानाम् अमृताय नमो नमः
संक्रान्तावस्य कौन्तेय यात्रास्वभ्युदयेषु च कुर्वन्बृहस्पतेः पूजां सर्वान्कामान्समश्नुते
भगवन् भवसंसारसागरोत्तारकारक किंचिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम्
सौरं धर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् विशोकसप्तमीं तद्वत् फलाढ्यां पापनाशिनीम्
शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम् मन्दारसप्तमीं तद्वच् छुभदां शुभसप्तमीम्
सर्वानन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः विधानमासां वक्ष्यामि यथावदनुपूर्वशः