शृणु चान्यद्भविष्यं यद् रूपसम्पद्विधायकम् भविष्यति युगे तस्मिन् द्वापरान्ते पितामह पिप्पलादस्य संवादो युधिष्ठिरपुरःसरैः
वसन्तं नैमिषारण्ये पिप्पलादं महामुनिम् अभिगम्य तदा चैनं प्रश्नमेकं करिष्यति युधिष्ठिरो धर्मपुत्रो धर्मयुक्तस्तपोधनम्
कथमारोग्यमैश्वर्यं मतिर्धर्मे गतिस्तथा अव्यङ्गता शिवे भक्तिर् वैष्णवो वा भवेत्कथम्
तस्योत्तरमिदं ब्रह्मन् पिप्पलादस्य धीमतः शृणुष्व यद्वक्ष्यति वै धर्मपुत्राय धार्मिकः
साधु पृष्टं त्वया भद्र इदानीं कथयामि ते अङ्गारव्रतम् इत्येतत् स वक्ष्यति महीपतेः
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् विरोचनस्य संवादं भार्गवस्य च धीमतः
प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम् रूपेणाप्रतिमं कान्त्या सो ऽहसद्भृगुनन्दनः
साधु साधु महाबाहो विरोचन शिवं तव तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः
ब्रह्मन्किमर्थमेतत्ते हास्यमाकस्मिकं कृतम् साधुसाध्विति मामेवम् उक्तवांस्त्वं वदस्व मे
तमेवंवादिनं शुक्र उवाच वदतां वरः विस्मयाद्व्रतमाहात्म्याद् धास्यमेतत्कृतं मया
पुरा दक्षविनाशाय कुपितस्य तु शूलिनः अथ तद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः
भित्त्वा स सप्त पातालान् अदहत्सप्त सागरान् अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः
वीरभद्र इति ख्यातः करपादायुतैर्युतः कृत्वासौ यज्ञमथनं पुनर्भूतलसम्भवः त्रिजगन्निर्दहन्भूयः शिवेन विनिवारितः
कृतं त्वया वीरभद्र दक्षयज्ञविनाशनम् इदानीमलमेतेन लोकदाहेन कर्मणा
शान्तिप्रदाता सर्वेषां ग्रहाणां प्रथमो भव प्रेक्षिष्यन्ते जनाः पूजां करिष्यन्ति वरान्मम
अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज देवलोके ऽद्वितीयं च तव रूपं भविष्यति
ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति
एवमुक्तस्तदा शान्तिम् अगमत् कामरूपधृक् संजातस्तत्क्षणाद्राजन् ग्रहत्वम् अगमत्पुनः
स कदाचिद्भवांस्तस्य पूजार्घ्यादिकमुत्तमम् दृष्टवान्क्रियमाणं च शूद्रेण च व्यवस्थितः
तेन त्वं रूपवाञ्जातः सुरशत्रुकुलोद्वह विविधा च रुचिर्जाता यस्मात्तव विदूरगा
विरोचन इति प्राहुस् तस्मात्त्वां देवदानवाः शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात् ईदृशीं रूपसम्पत्तिं दृष्ट्वा विस्मितवानहम्
साधु साध्विति तेनोक्तम् अहो माहात्म्यमुत्तमम् पश्यतो ऽपि भवेद्रूपम् ऐश्वर्यं किमु कुर्वतः
यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम् आलोकितं तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य जाता
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः प्रह्रादनन्दनो वीरः पुनः पप्रच्छ विस्मितः
भगवंस्तद्व्रतं सम्यक् श्रोतुमिच्छामि तत्त्वतः दीयमानं तु यद्दानं मया दृष्टं भवान्तरे
माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि इति तद्वचनं श्रुत्वा पुनः प्रोवाच विस्तरात्
चतुर्थ्यङ्गारकदिने यदा भवति दानव मृदा स्नानं तदा कुर्यात् पद्मरागविभूषितः
अग्निर्मूर्धा दिवो मन्त्रं जपन्नास्ते उदङ्मुखः शूद्रस्तूष्णीं स्मरन्भौमम् आस्ते भोगविवर्जितः
तथास्तमित आदित्ये गोमयेनानुलेपयेत् प्राङ्गणं पुष्पमालाभिर् अक्षताभिः समन्ततः
अभ्यर्च्याभिलिखेत्पद्मं कुङ्कुमेनाष्टपत्त्रकम् कुङ्कुमस्याप्यभावे तु रक्तचन्दनमिष्यते