नूनम् एतत् परिणतम् अधुना कृष्णपूजनात् वज्रेणापि हताः सन्तो न विनाशम् अवाप्नुयुः
एको ऽप्यनेकतामाप यस्मादुदरगो ऽप्यलम् अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति
यस्मान्मा रुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः मरुतो नाम ते नाम्ना भवन्तु मखभागिनः
ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः अर्थशास्त्रं समास्थाय मयैतद् दुष्कृतं कृतम्
कृत्वा मरुद्गणं देवैः समानममराधिपः दितिं विमानमारोप्य ससुतामनयद्दिवम्
यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः न जग्मुरैक्यमसुरैर् अतस्ते सुरवल्लभाः
आदिसर्गश्च यः सूत कथितो विस्तरेण तु प्रतिसर्गश्च ये येषाम् अधिपास् तान्वदस्व नः
यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव तदौषधीनामधिपं चकार यज्ञव्रतानां तपसां च चन्द्रम्
नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भः अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत्
विष्णुं रवीणामधिपं वसूनाम् अग्निं च लोकाधिपतिश्चकार प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम्
दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम् पिशाचरक्षःपशुभूतयक्षवेतालराजं त्व् अथ शूलपाणिम्
प्रालेयशैलं च पतिं गिरीणाम् ईशं समुद्रं ससरिन्नदानाम् गन्धर्वविद्याधरकिंनराणाम् ईशं पुनश्चित्ररथं चकार
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश दिशां गजानामधिपं चकार गजेन्द्रमैरावतनामधेयम्
सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम्
पितामहः पूर्वमथाभ्यषिञ्चच् चैतान्पुनः सर्वदिशाधिनाथान् पूर्वेण दिक्पालम् अथाभ्यषिञ्चन् नाम्ना सुधर्माणम् अरातिकेतुम्
ततो ऽधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम् स केतुमन्तं च दिगीशमीशश् चकार पश्चाद् भुवनाण्डगर्भः
हिरण्यरोमाणम् उदग्दिगीशं प्रजापतिर् देवसुतं चकार अद्यापि कुर्वन्ति दिशाम् अधीशाः शत्रून् दहन्तस्तु भुवो ऽभिरक्षाम्
चतुर्भिर् एभिः पृथुनामधेयो नृपो ऽभिषिक्तः प्रथमं पृथिव्याम् गते ऽन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते प्रजापतिः सो ऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिह्नः
एवं श्रुत्वा मनुः प्राह पुनरेव जनार्दनम् पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन
मन्वन्तराणि राजेन्द्र मनूनां चरितं च यत् प्रमाणं चैव कालस्य तां सृष्टिं च समासतः
एकचित्तः प्रशान्तात्मा शृणु मार्तण्डनन्दन यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे
सप्तैव ऋषयः पूर्वे ये मरीच्यादयः स्मृताः आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च
ज्योतिष्मान् द्युतिमान् हव्यो मेधा मेधातिथिर् वसुः स्वायम्भुवस्यास्य मनोर् दशैते वंशवर्धनाः
प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमंपदम् एतत् स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम्
स्वारोचिषस्य तनयाश् चत्वारो देववर्चसः नभोनभस्यप्रसृतिभानवः कीर्तिवर्धनाः
दत्तो निश्च्यवनस्तम्बः प्राणः कश्यप एव च और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः
देवाश्च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे हस्तीन्द्रः सुकृतो मूर्तिर् आपो ज्योतिरयः स्मयः
वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः द्वितीयमेतत्कथितं मन्वन्तरमतः परम्
औत्तमीयं प्रवक्ष्यामि तथा मन्वन्तरं शुभम् मनुर्नामौत्तमिर्यत्र दश पुत्रानजीजनत्
ईष ऊर्जश्च तर्जश् च शुचिः शुक्रस्तथैव च मधुश् च माधवश्चैव नभस्यो ऽथ नभास्तथा