ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजपुंगवम् शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत्
ततः प्रभृति यो विप्रो रत्यर्थं गृहमागतः स मान्यः सूर्यवारे च स मन्तव्यो भवेत्तदा
एवं त्रयोदशं यावन् मासमेवं द्विजोत्तमान् तर्पयेत यथाकामं प्रोषिते ऽन्यं समाचरेत्
तदनुज्ञया रूपवान्यो यावदभ्यागतो भवेत् आत्मनो ऽपि यथाविघ्नं गर्भभूतिकरं प्रियम्
दैवं वा मानुषं वा स्याद् अनुरागेण वा ततः साचारानष्टपञ्चाशद् यथाशक्त्या समाचरेत्
एतद्धि कथितं सम्यग् भवतीनां विशेषतः अधर्मो ऽयं ततो न स्याद् वेश्यानामिह सर्वदा
पुरुहूतेन यत्प्रोक्तं दानवीषु पुरा मया तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते
सर्वपापप्रशमनम् अनन्तफलदायकम् कल्याणीनां च कथितं तत्कुरुध्वं वराननाः
करोति याशेषमखण्डमेतत् कल्याणिनी माधवलोकसंस्था सा पूजिता देवगणैर् अशेषैर् आनन्दकृत्स्थानम् उपैति विष्णोः
तपोधनः सो ऽप्यभिधाय चैवं तदा च तासां व्रतमङ्गनानाम् स्वस्थानमेष्यत्यनु ताः समस्तं व्रतं करिष्यन्ति च देवयानैः
मोहाद्वापि मदाद्वापि यः परस्त्रीं समाश्रयेत् तस्यापि निष्कृतिं देव वद सर्वकृपाकर
भगवन्पुरुषस्येह स्त्रियाश्च विरहादिकम् शोकव्याधिभयं दुःखं न भवेद्येन तद्वद
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः क्षीरार्णवे सपत्नीकः सदा वसति केशवः
तस्यां सम्पूज्य गोविन्दं सर्वान्कामान्समश्नुते गोभूहिरण्यदानादि सप्तकल्पशतानुगम्
अशून्यशयनं नाम द्वितीया संप्रकीर्तिता तस्यां सम्पूजयेद्विष्णुम् एभिर्मन्त्रैर्विधानतः
श्रीवत्सधारिञ्छ्रीकान्त श्रीधामञ्छ्रीपते ऽव्यय गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम्
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम पितरो मा प्रणश्यन्तु मास्तु दाम्पत्यभेदनम्
लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान् तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्
लक्ष्म्या न शून्यो वरद शय्यां त्वं शयनं गतः शय्या ममाप्यशून्यास्तु तथैव मधुसूदन
गीतवादित्रनिर्घोषं देवदेवस्य कीर्तयेत् घण्टा भवेदशक्तस्य सर्ववाद्यमयी यतः
एवं सम्पूज्य गोविन्दम् अश्नीयात्तैलवर्जितम् नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयम्
ततः प्रभाते संजाते लक्ष्मीपतिसमन्विताम् दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्
पादुकोपानहच्छत्त्रचामरासनसंयुताम् अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम्
सोपधानकविश्रामां फलैर्नानाविधैर्युताम् तथाभरणधान्यैश्च यथाशक्त्या समन्विताम्
अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने दातव्या वेदविदुषे भावेनापतिताय च
तत्रोपविश्य दाम्पत्यम् अलंकृत्य विधानतः पत्न्यास्तु भाजनं दद्याद् भक्ष्यभोज्यसमन्वितम्
ब्राह्मणस्यापि सौवर्णीम् उपस्करसमन्विताम् प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत्
एवं यस्तु पुमान्कुर्याद् अशून्यशयनं हरेः वित्तशाठ्येन रहितो नारायणपरायणः
न तस्य पत्न्या विरहः कदाचिदपि जायते नारी वा विधवा ब्रह्मन् यावच्चन्द्रार्कतारकम् न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित्
न पुत्रपशुरत्नानि क्षयं यान्ति पितामह सप्त कल्पसहस्राणि सप्त कल्पशतानि च कुर्वन्नशून्यशयनं विष्णुलोके महीयते