एवं नारदशापेन केशवस्य च धीमतः वेश्यात्वमागताः सर्वा भवन्त्यः काममोहिताः इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराङ्गनाः
पुरा देवासुरे युद्धे हतेषु शतशः सुरैः दानवासुरदैत्येषु राक्षसेषु ततस्ततः
तेषां व्रातसहस्राणि शतान्यपि च योषिताम् परिणीतानि यानि स्युर् बलाद्भुक्तानि यानि वै तानि सर्वाणि देवेशः प्रोवाच वदतां वरः
वेश्याधर्मेण वर्तध्वम् अधुना नृपमन्दिरे भक्तिमत्यो वरारोहास् तथा देवकुलेषु च
राजानः स्वामिनस्तुल्याः सुता वापि च तत्समाः भविष्यति च सौभाग्यं सर्वासामपि शक्तितः
यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा निधनेनोपचार्यो वः स तदान्यत्र दाम्भिकात्
देवतानां पितॄणां च पुण्याहे समुपस्थिते गोभूहिरण्यधान्यानि प्रदेयानि स्वशक्तितः ब्राह्मणानां वरारोहाः कार्याणि वचनानि च
यच्चाप्यन्यद्व्रतं सम्यग् उपदेक्ष्याम्यहं ततः अविचारेण सर्वाभिर् अनुष्ठेयं च तत्पुनः
संसारोत्तारणायालम् एतद्वेदविदो विदुः यदा सूर्यदिने हस्तः पुष्यो याथ पुनर्वसुः
भवेत्सर्वौषधीस्नानं सम्यङ्नारी समाचरेत् तदा पञ्चशरस्यापि संनिधातृत्वमेष्यति अर्चयेत्पुण्डरीकाक्षम् अनङ्गस्यानुकीर्तनैः
कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे मेढ्रं कन्दर्पनिधये कीटं प्रीतिमते नमः
नाभिं सौख्यसमुद्राय वामाय च तथोदरम् हृदयं हृदयेशाय स्तनावाह्लादकारिणे
उत्कण्ठायेति वैकुण्ठम् आस्यमानन्दकारिणे वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम्
मानसायेति वै मौलिं विलोलायेति मूर्धजम् सर्वात्मने च सर्वाङ्गं देवदेवस्य पूजयेत्
नमः शिवाय शान्ताय पाशाङ्कुशधराय च गदिने पीतवस्त्राय शङ्खचक्रधराय च
नमो नारायणायेति कामदेवात्मने नमः सर्वशान्त्यै नमः प्रीत्यै नमो रत्यै नम श्रियै
नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे एवं सम्पूज्य देवेशम् अनङ्गात्मकमीश्वरम् गन्धैर्मौल्यैस्तथा धूपैर् नैवेद्येन च कामिनी
तत आहूय धर्मज्ञं ब्रह्माणं वेदपारगम् अव्यङ्गावयवं पूज्य गन्धपुष्पार्चनादिभिः
शालेयतण्डुलप्रस्थं घृतपात्रेण संयुतम् तस्मै विप्राय सा दद्यान् माधवः प्रीयतामिति
यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम् रत्यर्थं कामदेवो ऽयम् इति चित्ते ऽवधार्य तम्
यद्यदिच्छति विप्रेन्द्रस् तत्तत्कुर्याद्विलासिनी सर्वभावेन चात्मानम् अर्पयेत्स्मितभाषिणी
एवमादित्यवारेण सर्वमेतत्समाचरेत् तण्डुलप्रस्थदानं च यावन्मासास्त्रयोदश
ततस्त्रयोदशे मासि सम्प्राप्ते तस्य भामिनी विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम्
सोपधानकविश्रामां सास्तरावरणां शुभाम् प्रदीपोपानहच्छत्त्रपादुकासनसंयुताम्
सपत्नीकमलंकृत्य हेमसूत्राङ्गुलीयकैः सूक्ष्मवस्त्रैः सकटकैर् धूपमाल्यानुलेपनैः
कामदेवं सपत्नीकं गुडकुम्भोपरि स्थितम् ताम्रपात्रासनगतं हैमनेत्रपटावृतम्
सकांस्यभाजनोपेतम् इक्षुदण्डसमन्वितम् दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम्
यथान्तरं न पश्यामि कामकेशवयोः सदा तथैव सर्वकामाप्तिर् अस्तु विष्णो सदा मम
यथा न कमला देहात् प्रयाति तव केशव तथा ममापि देवेश शरीरे स्वे कुरु प्रभो
तथा च काञ्चनं देवं प्रतिगृह्णन्द्विजोत्तमः क इदं कस्मा अदादिति वैदिकं मन्त्रमीरयेत्