जाताथवा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा
स्नातः पुरा मण्डलमेष तद्वत् तेजोमयं वेदशरीरमाप अस्यां च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः
इदमेव कृतं महेन्द्रमुख्यैर् वसुभिर्देवसुरारिभिस्तथा तु फलमस्य न शक्यते ऽभिवक्तुं यदि जिह्वायुतकोटयो मुखे स्युः
कलिकलुषविदारिणीमनन्ताम् इति कथयिष्यति यादवेन्द्रसूनुः अपि नरकगतान्पितॄन् अशेषान् अलमुद्धर्तुमिहैव यः करोति
य इदमघविदारणं शृणोति भक्त्या परिपठतीह परोपकारहेतोः तिथिमिह सकलार्थभाङ्नरेन्द्रस् तव चतुरानन साम्यतामुपैति
कल्याणिनी नाम पुरा बभूव या द्वादशी माघदिनेषु पूज्या सा पाण्डुपुत्रेण कृता भविष्यत्य् अनन्तपुण्यानघ भीमपूर्वा
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः सदाचारस्य भगवन् धर्मशास्त्रविनिश्चयः पण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः
तस्मिन्नेव युगे ब्रह्मन् सहस्राणि तु षोडश वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव
ताभिर्वसन्तसमये कोकिलालिकुलाकुले पुष्पिते पवनोत्फुल्लकह्लारसरसस्तटे
निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृतः कुरङ्गनयनः श्रीमान् मालतीकृतशेखरः
गच्छन्समीपमार्गेण साम्बः परपुरंजयः साक्षात्कन्दर्पो रूपेण सर्वाभरणभूषितः
अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि
तदावेक्ष्य जगन्नाथः सर्वतो ज्ञानचक्षुषा शापं वक्ष्यति ताः सर्वा वो हरिष्यन्ति दस्यवः मत्परोक्षं यतः कामलौल्यादीदृग्विधं कृतम्
ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत् ताभिः शापाभितप्ताभिर् भगवान् भूतभावनः
उत्तारभूतं दासत्वं समुद्राद्ब्राह्मणप्रियः उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम्
भवतीनाम् ऋषिर्दाल्भ्यो यद्व्रतं कथयिष्यति तदैवोत्तारणायालं दासत्वे ऽपि भविष्यति इत्युक्त्वा ताः परिष्वज्य गतो द्वारवतीश्वरः
ततः कालेन महता भारावतरणे कृते निवृत्ते मौसले तद्वत् केशवे दिवमागते
शून्ये यदुकुले सर्वैश् चौरैरपि जिते ऽर्जुने हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ
तिष्ठन्तीषु च दौर्गत्यसंतप्तासु चतुर्मुख आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः
तास्तमर्घ्येण सम्पूज्य प्रणिपत्य पुनः पुनः लालप्यमाना बहुशो बाष्पपर्याकुलेक्षणाः
स्मरन्त्यो विपुलान्भोगान् दिव्यमाल्यानुलेपनान् भर्तारं जगतामीशम् अनन्तमपराजितम्
दिव्यभावां तां च पुरीं नानारत्नगृहाणि च द्वारकावासिनः सर्वान् देवरूपान्कुमारकान् प्रश्नमेवं करिष्यन्ति मुनेरभिमुखं स्थिताः
दस्युभिर्भगवान्सर्वाः परिभुक्ता वयं बलात् स्वधर्माच्च्यवने ऽस्माकम् अस्मिन्नः शरणं भव
आदिष्टो ऽसि पुरा ब्रह्मन् केशवेन च धीमता कस्मादीशेन संयोगं प्राप्य वेश्यात्वमागताः
वेश्यानामपि यो धर्मस् तं नो ब्रूहि तपोधन कथयिष्यत्यतस्तासां स दाल्भ्यश्चैकितायनः
जलक्रीडाविहारेषु पुरा सरसि मानसे भवतीनां च सर्वासां नारदो ऽभ्याशमागतः
हुताशनसुताः सर्वा भवन्त्यो ऽप्सरसः पुरा अप्रणम्यावलेपेन परिपृष्टः स योगवित् कथं नारायणो ऽस्माकं भर्ता स्याद् इत्युपादिश
तस्माद्वरप्रदानं वः शापश्चायमभूत्पुरा शय्याद्वयप्रदानेन मधुमाधवमासयोः
सुवर्णोपस्करोत्सर्गाद् द्वादश्यां शुक्लपक्षतः भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि
यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात् परिपृष्टो ऽस्मि तेनाशु वियोगो वो भविष्यति चौरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ