कृत्वा वै ब्राह्मणान् सर्वान् अन्नैर्नानाविधैस्तथा भुक्त्वा चाक्षारलवणम् आत्मना च विसर्जयेत्
अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः प्रीयतामत्र देवेशः केशवः क्लेशनाशनः
शिवस्य हृदये विष्णुर् विष्णोश्च हृदये शिवः यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः
एवमुच्चार्य तान्कुम्भान् गाश्चैव शयनानि च वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः
अभावे बहुशय्यानाम् एकामपि सुसंस्कृताम् शय्यां दद्याद्द्विजातेश्च सर्वोपस्करसंयुताम्
इतिहासपुराणानि वाचयित्वातिवाहयेत् तद्दिनं नरशार्दूल य इच्छेद्विपुलां श्रियम्
तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन विमत्सरः कुरु व्रतमिदं सम्यक् स्नेहात्तव मयेरितम्
त्वया कृतमिदं वीर त्वन्नामाख्यं भविष्यति सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते
त्वमादिकर्ता भव सौकरे ऽस्मिन् कल्पे महावीरवरप्रधान यस्याः स्मरन्कीर्तनमप्यशेषं विनष्टपापस्त्रिदशाधिपः स्यात्
कृत्वा च यामप्सरसाम् अधीशा वेश्या कृता ह्यन्यभवान्तरेषु आभीरकन्यातिकुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे
जाताथवा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा
स्नातः पुरा मण्डलमेष तद्वत् तेजोमयं वेदशरीरमाप अस्यां च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः
इदमेव कृतं महेन्द्रमुख्यैर् वसुभिर्देवसुरारिभिस्तथा तु फलमस्य न शक्यते ऽभिवक्तुं यदि जिह्वायुतकोटयो मुखे स्युः
कलिकलुषविदारिणीमनन्ताम् इति कथयिष्यति यादवेन्द्रसूनुः अपि नरकगतान्पितॄन् अशेषान् अलमुद्धर्तुमिहैव यः करोति
य इदमघविदारणं शृणोति भक्त्या परिपठतीह परोपकारहेतोः तिथिमिह सकलार्थभाङ्नरेन्द्रस् तव चतुरानन साम्यतामुपैति
कल्याणिनी नाम पुरा बभूव या द्वादशी माघदिनेषु पूज्या सा पाण्डुपुत्रेण कृता भविष्यत्य् अनन्तपुण्यानघ भीमपूर्वा
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः सदाचारस्य भगवन् धर्मशास्त्रविनिश्चयः पण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः
तस्मिन्नेव युगे ब्रह्मन् सहस्राणि तु षोडश वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव
ताभिर्वसन्तसमये कोकिलालिकुलाकुले पुष्पिते पवनोत्फुल्लकह्लारसरसस्तटे
निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृतः कुरङ्गनयनः श्रीमान् मालतीकृतशेखरः
गच्छन्समीपमार्गेण साम्बः परपुरंजयः साक्षात्कन्दर्पो रूपेण सर्वाभरणभूषितः
अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि
तदावेक्ष्य जगन्नाथः सर्वतो ज्ञानचक्षुषा शापं वक्ष्यति ताः सर्वा वो हरिष्यन्ति दस्यवः मत्परोक्षं यतः कामलौल्यादीदृग्विधं कृतम्
ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत् ताभिः शापाभितप्ताभिर् भगवान् भूतभावनः
उत्तारभूतं दासत्वं समुद्राद्ब्राह्मणप्रियः उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम्
भवतीनाम् ऋषिर्दाल्भ्यो यद्व्रतं कथयिष्यति तदैवोत्तारणायालं दासत्वे ऽपि भविष्यति इत्युक्त्वा ताः परिष्वज्य गतो द्वारवतीश्वरः
ततः कालेन महता भारावतरणे कृते निवृत्ते मौसले तद्वत् केशवे दिवमागते
शून्ये यदुकुले सर्वैश् चौरैरपि जिते ऽर्जुने हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ
तिष्ठन्तीषु च दौर्गत्यसंतप्तासु चतुर्मुख आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः
तास्तमर्घ्येण सम्पूज्य प्रणिपत्य पुनः पुनः लालप्यमाना बहुशो बाष्पपर्याकुलेक्षणाः