योनिवक्त्रं च तत्कृत्वा ब्राह्मणैः यवसर्पिषी तिलांश्च विष्णुदेवत्यैर् मन्त्रैरेकाग्निवत्तदा
हुत्वा च वैष्णवं सम्यक् चरुं गोक्षीरसंयुतम् निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत्
जलकुम्भान्महावीर्य स्थापयित्वा त्रयोदश भक्ष्यैर्नानाविधैर्युक्तान् सितवस्त्रैरलंकृतान्
युक्तानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितान् चतुर्भिर्बह्वृचैर्होमस् तत्र कार्य उदङ्मुखैः
रुद्रजापश्चतुर्भिश्च यजुर्वेदपरायणैः वैष्णवानि तु सामानि चतुरः सामवेदिनः अरिष्टवर्गसहितान्य् अभितः परिपाठयेत्
एवं द्वादश तान्विप्रान् वस्त्रमाल्यानुलेपनैः पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः
वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः एवं क्षपातिवाह्या च गीतमङ्गलनिःस्वनैः
उपाध्यायस्य च पुनर् द्विगुणं सर्वमेव तु ततः प्रभाते विमले समुत्थाय त्रयोदश
गा वै दद्यात्कुरुश्रेष्ठ सौवर्णमुखसंयुताः पयस्विनीः शीलवतीः कांस्यदोहसमन्विताः
रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः तास्तु तेषां ततो भक्त्या भक्ष्यभोज्यान्नतर्पितान्
कृत्वा वै ब्राह्मणान् सर्वान् अन्नैर्नानाविधैस्तथा भुक्त्वा चाक्षारलवणम् आत्मना च विसर्जयेत्
अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः प्रीयतामत्र देवेशः केशवः क्लेशनाशनः
शिवस्य हृदये विष्णुर् विष्णोश्च हृदये शिवः यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः
एवमुच्चार्य तान्कुम्भान् गाश्चैव शयनानि च वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः
अभावे बहुशय्यानाम् एकामपि सुसंस्कृताम् शय्यां दद्याद्द्विजातेश्च सर्वोपस्करसंयुताम्
इतिहासपुराणानि वाचयित्वातिवाहयेत् तद्दिनं नरशार्दूल य इच्छेद्विपुलां श्रियम्
तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन विमत्सरः कुरु व्रतमिदं सम्यक् स्नेहात्तव मयेरितम्
त्वया कृतमिदं वीर त्वन्नामाख्यं भविष्यति सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते
त्वमादिकर्ता भव सौकरे ऽस्मिन् कल्पे महावीरवरप्रधान यस्याः स्मरन्कीर्तनमप्यशेषं विनष्टपापस्त्रिदशाधिपः स्यात्
कृत्वा च यामप्सरसाम् अधीशा वेश्या कृता ह्यन्यभवान्तरेषु आभीरकन्यातिकुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे
जाताथवा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा
स्नातः पुरा मण्डलमेष तद्वत् तेजोमयं वेदशरीरमाप अस्यां च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः
इदमेव कृतं महेन्द्रमुख्यैर् वसुभिर्देवसुरारिभिस्तथा तु फलमस्य न शक्यते ऽभिवक्तुं यदि जिह्वायुतकोटयो मुखे स्युः
कलिकलुषविदारिणीमनन्ताम् इति कथयिष्यति यादवेन्द्रसूनुः अपि नरकगतान्पितॄन् अशेषान् अलमुद्धर्तुमिहैव यः करोति
य इदमघविदारणं शृणोति भक्त्या परिपठतीह परोपकारहेतोः तिथिमिह सकलार्थभाङ्नरेन्द्रस् तव चतुरानन साम्यतामुपैति
कल्याणिनी नाम पुरा बभूव या द्वादशी माघदिनेषु पूज्या सा पाण्डुपुत्रेण कृता भविष्यत्य् अनन्तपुण्यानघ भीमपूर्वा
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः सदाचारस्य भगवन् धर्मशास्त्रविनिश्चयः पण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः
तस्मिन्नेव युगे ब्रह्मन् सहस्राणि तु षोडश वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव
ताभिर्वसन्तसमये कोकिलालिकुलाकुले पुष्पिते पवनोत्फुल्लकह्लारसरसस्तटे
निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृतः कुरङ्गनयनः श्रीमान् मालतीकृतशेखरः