तस्यां कदाचिदासीनः सभायाममितद्युतिः भार्याभिर्वृष्णिभिश्चैव भूभृद्भिर् भूरिदक्षिणैः
कुरुभिर्देवगन्धर्वैर् अभितः कैटभार्दनः प्रवृत्तासु पुराणीषु धर्मसम्बन्धिनीषु च
कथान्ते भीमसेनेन परिपृष्टः प्रतापवान् त्वया पृष्टस्य धर्मस्य रहस्यस्यास्य भेदकृत्
भविता स तदा ब्रह्मन् कर्ता चैव वृकोदरः प्रवर्तको ऽस्य धर्मस्य पाण्डुपुत्रो महाबलः
यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः
मतिमान्मानशीलश्च नागायुतबलो महान् भविष्यत्यजरः श्रीमान् कन्दर्प इव रूपवान्
धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे इदं व्रतमशेषाणां व्रतानामधिकं यतः
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः अशेषयज्ञफलदम् अशेषाघविनाशनम्
अशेषदुष्टशमनम् अशेषसुरपूजितम् पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् भविष्यं च भविष्याणां पुराणानां पुरातनम्
यद्यष्टमीचतुर्दश्योर् द्वादशीष्वथ भारत अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वम् उपोषितुम्
ततः पुण्यां तिथिमिमां सर्वपापप्रणाशिनीम् उपोष्य विधिनानेन गच्छ विष्णोः परं पदम्
माघमासस्य दशमी यदा शुक्ला भवेत्तदा घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत्
तथैव विष्णुमभ्यर्च्य नभो नारायणेति च कृष्णाय पादौ सम्पूज्य शिरः सर्वात्मने नमः
वैकुण्ठायेति वैकुण्ठम् उरः श्रीवत्सधारिणे शङ्खिने चक्रिणे तद्वद् गदिने वरदाय वै सर्वे नारायणस्यैवं संपूज्या बाहवः क्रमात्
दामोदरायेत्युदरं मेढ्रं पञ्चशराय वै ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे
नमो नीलाय वै जङ्घे पादौ विश्वसृजे नमः नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै
नमः पुष्ट्यै नमस्तुष्ट्यै धृष्ट्यै हृष्ट्यै नमो नमः नमो विहंगनाथाय वायुवेगाय पक्षिणे विषप्रमाथिने नित्यं गरुडं चाभिपूजयेत्
एवं सम्पूज्य गोविन्दम् उमापतिविनायकौ गन्धैर्माल्यैस्तथा धूपैर् भक्ष्यैर्नानाविधैरपि
गव्येन पयसा सिद्धां कृसरामथ वाग्यतः सर्पिषा सह भुक्त्वा च गत्वा शतपदं बुधः
नैयग्रोधं दन्तकाष्ठम् अथवा खादिरं बुधः गृहीत्वा धावयेद्दन्तान् आचान्तः प्रागुदङ्मुखः
ब्रूयात् सायन्तनीं कृत्वा संध्यामस्तमिते रवौ नमो नारायणायेति त्वामहं शरणं गतः
एकादश्यां निराहारः समभ्यर्च्य च केशवम् रात्रिं च सकलां स्थित्वा स्नानं च पयसा तथा
सर्पिषा चापि दहनं हुत्वा ब्राह्मणपुंगवैः सहैव पुण्डरीकाक्ष द्वादश्यां क्षीरभोजनम्
करिष्यामि यतात्माहं निर्विघ्नेनास्तु तच्च मे एवमुक्त्वा स्वपेद्भूमाव् इतिहासकथां पुनः
श्रुत्वा प्रभाते संजाते नदीं गत्वा विशां पते स्नानं कृत्वा मृदा तद्वत् पाषण्डान् अभिवर्जयेत्
उपास्य संध्यां विधिवत् कृत्वा च पितृतर्पणम् प्रणम्य च हृषीकेशं सप्तलोकैकमीश्वरम्
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः दशहस्तमथाष्टौ वा करान्कुर्याद्विशां पते
चतुर्हस्तां शुभां कुर्याद् वेदीमरिनिषूदन चतुर्हस्तप्रमाणं च विन्यसेत्तत्र तोरणम्
आरोप्य कलशं तत्र दिक्पालान्पूजयेत्ततः छिद्रेण जलसम्पूर्णम् अथ कृष्णाजिनस्थितः तस्य धारां च शिरसा धारयेत्सकलां निशाम्
तथैव विष्णोः शिरसि क्षीरधारां प्रपातयेत् अरत्निमात्रं कुण्डं च कुर्यात्तत्र त्रिमेखलम्