भुक्त्वा च गुरुणा चेयम् उच्चार्या मन्त्रसंततिः दीर्घायुरस्तु बालो ऽयं यावद्वर्षशतं सुखी
यत्किंचिदस्य दुरितं तत्क्षिप्तं वडवानले ब्रह्मा रुद्रो वसुः स्कन्दो विष्णुः शक्रो हुताशनः
रक्षन्तु सर्वे दुष्टेभ्यो वरदाः सन्तु सर्वदा एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम्
शक्तितः कपिलां दद्यात् प्रणम्य च विसर्जयेत् चरुं च पुत्रसहिता प्रणम्य रविशंकरौ
हुतशेषं तदाश्नीयाद् आदित्याय नमो ऽस्त्विति इदमेवाद्भुतोद्वेगदुःस्वप्नेषु प्रशस्यते
कर्तुर्जन्मदिनर्क्षं च त्यक्त्वा सम्पूजयेत्सदा शान्त्यर्थं शुक्लसप्तम्याम् एतत्कुर्वन्न सीदति
सदानेन विधानेन दीर्घायुरभवन्नरः संवत्सराणामयुतं शशास पृथिवीमिमाम्
पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः कथयित्वा द्विजश्रेष्ठ तत्रैवान्तरधीयत
एतत्सर्वं समाख्यातं सप्तमीस्नानमुत्तमम् सर्वदुष्टोपशमनं बालानां परमं हितम्
आरोग्यं भास्करादिच्छेद् धनमिच्छेद्धुताशनात् ईश्वराज्ज्ञानम् अन्विच्छेन् मोक्षम् इच्छेज्जनार्दनात्
एतन्महापातकनाशनं स्यात् परं हितं बालविवर्धनं च शृणोति यश्चैनमनन्यचेतास् तस्यापि सिद्धिं मुनयो वदन्ति
पुरा रथंतरे कल्पे परिपृष्टो महात्मना मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम्
कथमारोग्यमैश्वर्यम् अनन्तममरेश्वर स्वल्पेन तपसा देव भवेन्मोक्षो ऽथवा नृणाम्
किमज्ञातं महादेव त्वत्प्रसादादधोक्षज स्वल्पकेनाथ तपसा महत्फलमिहोच्यताम्
एवं पृष्टः स विश्वात्मा ब्रह्मणा लोकभावनः उमापतिरुवाचेदं मनसः प्रीतिकारकम्
अस्माद्रथंतरात्कल्पात् त्रयोविंशात् पुनर्यदा वाराहो भविता कल्पस् तस्य मन्वन्तरे शुभे
वैवस्वताख्ये संजाते सप्तमे सप्तलोककृत् द्वापराख्यं युगं तद्वद् अष्टाविंशतिमं जगुः
तस्यान्ते स महादेवो वासुदेवो जनार्दनः भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति
द्वैपायन ऋषिस्तद्वद् रौहिणेयो ऽथ केशवः कंसादिदर्पमथनः केशवः क्लेशनाशनः
पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली दिव्यानुभावसंयुक्ताम् अधिवासाय शार्ङ्गिणः त्वष्टा ममाज्ञया तद्वत् करिष्यति जगत्पतेः
तस्यां कदाचिदासीनः सभायाममितद्युतिः भार्याभिर्वृष्णिभिश्चैव भूभृद्भिर् भूरिदक्षिणैः
कुरुभिर्देवगन्धर्वैर् अभितः कैटभार्दनः प्रवृत्तासु पुराणीषु धर्मसम्बन्धिनीषु च
कथान्ते भीमसेनेन परिपृष्टः प्रतापवान् त्वया पृष्टस्य धर्मस्य रहस्यस्यास्य भेदकृत्
भविता स तदा ब्रह्मन् कर्ता चैव वृकोदरः प्रवर्तको ऽस्य धर्मस्य पाण्डुपुत्रो महाबलः
यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः
मतिमान्मानशीलश्च नागायुतबलो महान् भविष्यत्यजरः श्रीमान् कन्दर्प इव रूपवान्
धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे इदं व्रतमशेषाणां व्रतानामधिकं यतः
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः अशेषयज्ञफलदम् अशेषाघविनाशनम्
अशेषदुष्टशमनम् अशेषसुरपूजितम् पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् भविष्यं च भविष्याणां पुराणानां पुरातनम्
यद्यष्टमीचतुर्दश्योर् द्वादशीष्वथ भारत अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वम् उपोषितुम्