कृतवीर्येण वै पृष्ट इदं वक्ष्यति भास्करः अशेषदुष्टशमनं सदा कल्मषनाशनम्
अलं क्लेशेन महता पुत्रस्तव नराधिप भविष्यति चिरंजीवी किंतु कल्मषनाशनम्
सप्तमीस्नपनं वक्ष्ये सर्वलोकहिताय वै जातस्य मृतवत्सायाः सप्तमे मासि नारद अथवा शुक्लसप्तम्याम् एतत्सर्वं प्रशस्यते
ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः तद्वद्वृद्धातुराणां च कृत्यं स्यादितरेषु च
गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा तण्डुलै रक्तशालीयैश् चरुं गोक्षीरसंयुतम् निर्वपेत्सूर्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः
कीर्तयेत्सूर्यदेवत्यं सप्तर्चं च घृताहुतीः जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद
होतव्याः समिधश्चात्र तथैवार्कपलाशयोः यवकृष्णतिलैर्होमः कर्तव्यो ऽष्टशतं पुनः
व्याहृतीभिस्तथाज्येन तथैवाष्टशतं पुनः हुत्वा स्नानं च कर्तव्यं मङ्गलं येन धीमता
विप्रेण वेदविदुषा विधिवद्दर्भपाणिना स्थापयित्वा तु चतुरः कुम्भान्कोणेषु शोभनान्
पञ्चमं च पुनर्मध्ये दध्यक्षतविभूषितम् स्थापयेदव्रणं कुम्भं सप्तर्चेनाभिमन्त्रितम्
सौरेण तीर्थतोयेन पूर्णं रत्नसमन्वितम् सर्वान्सर्वौषधैर्युक्तान् पञ्चगव्यसमन्वितान् पञ्चरत्नफलैः पुष्पैर् वासोभिः परिवेष्टयेत्
गजाश्वरथ्यावल्मीकात् संगमाद्ध्रदगोकुलात् संशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत्
चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् गृहीत्वा ब्राह्मणस्तत्र सौरान्मन्त्रानुदीरयेत्
नारीभिः सप्तसंख्याभिर् अव्यङ्गाङ्गीभिरत्र च पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः सविप्राभिश्च कर्तव्यं मृतवत्साभिषेचनम्
दीर्घायुरस्तु बालो ऽयं जीवत्पुत्रा च भामिनी आदित्यश्चन्द्रमाः सार्धं ग्रहनक्षत्रमण्डलैः
सशक्रा लोकपाला वै ब्रह्मविष्णुमहेश्वराः ते ते चान्ये च देवौघाः सदा पान्तु कुमारकम्
मित्रः शनिर्वा हुतभुग् ये च बालग्रहाः क्वचित् पीडां कुर्वन्तु बालस्य मा मातुर्जनकस्य वै
ततः शुक्लाम्बरधरा कुमारपतिसंयुता सप्तकं पूजयेद्भक्त्या स्त्रीणामथ गुरुं पुनः
काञ्चनीं च ततः कुर्यात् ताम्रपात्रोपरिस्थिताम् प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत्
वस्त्रकाञ्चनरत्नौघैर् भक्ष्यैः सघृतपायसैः पूजयेद्ब्राह्मणांस्तद्वद् वित्तशाठ्यविवर्जितः
भुक्त्वा च गुरुणा चेयम् उच्चार्या मन्त्रसंततिः दीर्घायुरस्तु बालो ऽयं यावद्वर्षशतं सुखी
यत्किंचिदस्य दुरितं तत्क्षिप्तं वडवानले ब्रह्मा रुद्रो वसुः स्कन्दो विष्णुः शक्रो हुताशनः
रक्षन्तु सर्वे दुष्टेभ्यो वरदाः सन्तु सर्वदा एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम्
शक्तितः कपिलां दद्यात् प्रणम्य च विसर्जयेत् चरुं च पुत्रसहिता प्रणम्य रविशंकरौ
हुतशेषं तदाश्नीयाद् आदित्याय नमो ऽस्त्विति इदमेवाद्भुतोद्वेगदुःस्वप्नेषु प्रशस्यते
कर्तुर्जन्मदिनर्क्षं च त्यक्त्वा सम्पूजयेत्सदा शान्त्यर्थं शुक्लसप्तम्याम् एतत्कुर्वन्न सीदति
सदानेन विधानेन दीर्घायुरभवन्नरः संवत्सराणामयुतं शशास पृथिवीमिमाम्
पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः कथयित्वा द्विजश्रेष्ठ तत्रैवान्तरधीयत
एतत्सर्वं समाख्यातं सप्तमीस्नानमुत्तमम् सर्वदुष्टोपशमनं बालानां परमं हितम्
आरोग्यं भास्करादिच्छेद् धनमिच्छेद्धुताशनात् ईश्वराज्ज्ञानम् अन्विच्छेन् मोक्षम् इच्छेज्जनार्दनात्