पुरा कृतानि पापानि फलन्त्यस्मिंस्तपोधन रोगदौर्गत्यरूपेण तथैवेष्टवधेन च
तद्विघाताय वक्ष्यामि सदा कल्पाणकारकम् सप्तमीस्नपनं नाम जनपीडाविनाशनम्
बालानां मरणं यत्र क्षीरपाणां प्रदृश्यते तद्वद्वृद्धातुराणां च यौवने चापि वर्तताम्
शान्तये तत्र वक्ष्यामि मृतवत्साभिषेचनम् एतद् एवाद्भुतोद्वेगचित्तभ्रमविनाशनम्
भविष्यति च वाराहो यत्र कल्पस्तपोधन वैवस्वतश्च तत्रापि यदा तु मनुरुत्तमः
भविष्यति च तत्रैव पञ्चविंशतिमं यदा कृतं नाम युगं तत्र हैहयान्वयवर्धनः भविता नृपतिर्वीरः कृतवीर्यः प्रतापवान्
स सप्तद्वीपमखिलं पालयिष्यति भूतलम् यावद्वर्षसहस्राणि सप्तसप्तति नारद
जातमात्रं च तस्यापि यावत्पुत्रशतं तथा च्यवनस्य तु शापेन विनाशमपयास्यति
सहस्रबाहुश्च यदा भविता तस्य वै सुतः कुरङ्गनयनः श्रीमान् सम्भूतो नृपलक्षणैः
कृतवीर्यस्तदाराध्य सहस्रांशुं दिवाकरम् उपवासैर्व्रतैर्दिव्यैर् वेदसूक्तैश्च नारद पुत्रस्य जीवनायालम् एतत्स्नानमवाप्स्यति
कृतवीर्येण वै पृष्ट इदं वक्ष्यति भास्करः अशेषदुष्टशमनं सदा कल्मषनाशनम्
अलं क्लेशेन महता पुत्रस्तव नराधिप भविष्यति चिरंजीवी किंतु कल्मषनाशनम्
सप्तमीस्नपनं वक्ष्ये सर्वलोकहिताय वै जातस्य मृतवत्सायाः सप्तमे मासि नारद अथवा शुक्लसप्तम्याम् एतत्सर्वं प्रशस्यते
ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः तद्वद्वृद्धातुराणां च कृत्यं स्यादितरेषु च
गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा तण्डुलै रक्तशालीयैश् चरुं गोक्षीरसंयुतम् निर्वपेत्सूर्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः
कीर्तयेत्सूर्यदेवत्यं सप्तर्चं च घृताहुतीः जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद
होतव्याः समिधश्चात्र तथैवार्कपलाशयोः यवकृष्णतिलैर्होमः कर्तव्यो ऽष्टशतं पुनः
व्याहृतीभिस्तथाज्येन तथैवाष्टशतं पुनः हुत्वा स्नानं च कर्तव्यं मङ्गलं येन धीमता
विप्रेण वेदविदुषा विधिवद्दर्भपाणिना स्थापयित्वा तु चतुरः कुम्भान्कोणेषु शोभनान्
पञ्चमं च पुनर्मध्ये दध्यक्षतविभूषितम् स्थापयेदव्रणं कुम्भं सप्तर्चेनाभिमन्त्रितम्
सौरेण तीर्थतोयेन पूर्णं रत्नसमन्वितम् सर्वान्सर्वौषधैर्युक्तान् पञ्चगव्यसमन्वितान् पञ्चरत्नफलैः पुष्पैर् वासोभिः परिवेष्टयेत्
गजाश्वरथ्यावल्मीकात् संगमाद्ध्रदगोकुलात् संशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत्
चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् गृहीत्वा ब्राह्मणस्तत्र सौरान्मन्त्रानुदीरयेत्
नारीभिः सप्तसंख्याभिर् अव्यङ्गाङ्गीभिरत्र च पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः सविप्राभिश्च कर्तव्यं मृतवत्साभिषेचनम्
दीर्घायुरस्तु बालो ऽयं जीवत्पुत्रा च भामिनी आदित्यश्चन्द्रमाः सार्धं ग्रहनक्षत्रमण्डलैः
सशक्रा लोकपाला वै ब्रह्मविष्णुमहेश्वराः ते ते चान्ये च देवौघाः सदा पान्तु कुमारकम्
मित्रः शनिर्वा हुतभुग् ये च बालग्रहाः क्वचित् पीडां कुर्वन्तु बालस्य मा मातुर्जनकस्य वै
ततः शुक्लाम्बरधरा कुमारपतिसंयुता सप्तकं पूजयेद्भक्त्या स्त्रीणामथ गुरुं पुनः
काञ्चनीं च ततः कुर्यात् ताम्रपात्रोपरिस्थिताम् प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत्
वस्त्रकाञ्चनरत्नौघैर् भक्ष्यैः सघृतपायसैः पूजयेद्ब्राह्मणांस्तद्वद् वित्तशाठ्यविवर्जितः