विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना न शयालुः सदा तिष्ठेद् व्यायामं च विवर्जयेत्
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् वर्जयेत्कलहं लोकैर् गात्रभङ्गं तथैव च
न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन न शयीतोत्तरशिरा न चापरशिराः क्वचित्
न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती नामङ्गल्यां वदेद्वाचं न च हास्याधिका भवेत्
कुर्यात्तु गुरुशुश्रूषां नित्यं माङ्गल्यतत्परा सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत्
कृतरक्षा सुभूषा च वास्तुपूजनतत्परा तिष्ठेत्प्रसन्नवदना भर्तुः प्रियहिते रता
दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत् इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी
यस्तु तस्या भवेत्पुत्रः शीलायुर्वृद्धिसंयुतः अन्यथा गर्भपतनम् अवाप्नोति न संशयः
तस्मात्त्वमनया वृत्त्या गर्भे ऽस्मिन्यत्नमाचर स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत ततः सा कश्यपोक्तेन विधिना समतिष्ठत
अथ भीतस्तथेन्द्रो ऽपि दितेः पार्श्वमुपागमत् विहाय देवसदनं तच्छुश्रूषुरवस्थितः
दितेश्छिद्रान्तरप्रेप्सुर् अभवत्पाकशासनः विनीतो ऽभवद् अव्यग्रः प्रशान्तवदनो बहिः
अजानन्किल तत्कार्यम् आत्मनः शुभमाचरन् ततो वर्षशतान्ते सा न्यूने तु दिवसैस् त्रिभिः
मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा
निद्राभरसमाक्रान्ता दिवापरशिराः क्वचित् ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः
वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः ततः सप्तैव ते जाताः कुमाराः सूर्यवर्चसः
रुदन्तः सप्त ते बाला निषिद्धा गिरिदारिणा भूयो ऽपि रुदतश्चैतान् एकैकं सप्तधा हरिः
चिछेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः एवमेकोनपञ्चाशद् भूत्वा ते रुरुदुर्भृशम्
इन्द्रो निवारयामास मां रोदिष्ट पुनः पुनः ततः स चिन्तयामास किमेतदिति वृत्रहा
धर्मस्य कस्य माहात्म्यात् पुनः संजीवितास्त्वमी विदित्वा ध्यानयोगेन मदनद्वादशीफलम्
नूनम् एतत् परिणतम् अधुना कृष्णपूजनात् वज्रेणापि हताः सन्तो न विनाशम् अवाप्नुयुः
एको ऽप्यनेकतामाप यस्मादुदरगो ऽप्यलम् अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति
यस्मान्मा रुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः मरुतो नाम ते नाम्ना भवन्तु मखभागिनः
ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः अर्थशास्त्रं समास्थाय मयैतद् दुष्कृतं कृतम्
कृत्वा मरुद्गणं देवैः समानममराधिपः दितिं विमानमारोप्य ससुतामनयद्दिवम्
यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः न जग्मुरैक्यमसुरैर् अतस्ते सुरवल्लभाः
आदिसर्गश्च यः सूत कथितो विस्तरेण तु प्रतिसर्गश्च ये येषाम् अधिपास् तान्वदस्व नः
यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव तदौषधीनामधिपं चकार यज्ञव्रतानां तपसां च चन्द्रम्
नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भः अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत्
विष्णुं रवीणामधिपं वसूनाम् अग्निं च लोकाधिपतिश्चकार प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम्