अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् विद्यावानर्थसंयुक्तो रक्तकण्ठश्च जायते
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते नारी वा कुरुते या तु सापि तत्फलगामिनी
ब्रह्मलोके वसेद् राजन् यावत् कल्पायुतत्रयम्
सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत् विद्याधरपुरे सो ऽपि वसेत्कल्पायुतत्रयम्
चन्द्रादित्योपरागे तु यत्स्नानमभिधीयते तदहं श्रोतुमिच्छामि द्रव्यमन्त्रविधानवित्
यस्य राशिं समासाद्य भवेद्ग्रहणसम्प्लवः तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधविधानतः
चन्द्रोपरागं सम्प्राप्य कृत्वा ब्राह्मणवाचनम् सम्पूज्य चतुरो विप्राञ् शुक्लमाल्यानुलेपनैः
पूर्वमेवोपरागस्य समासाद्यौषधादिकम् स्थापयेच् चतुरः कुम्भान् अव्रणान्सागरानिति
गजाश्वरथ्यावल्मीकसंगमाद्ध्रदगोकुलात् राजद्वारप्रदेशाच्च मृदमानीय चाक्षिपेत्
पञ्चगव्यं च कुम्भेषु शुद्धमुक्ताफलानि च रोचनां पद्मशङ्खौ च पञ्चरत्नसमन्वितम्
स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् राजदन्तं सकुमुदं तथैवोशीरगुग्गुलम् एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत्सुरान्
सर्वे समुद्राः सरितस् तीर्थानि जलदा नदाः आयान्तु यजमानस्य दुरितक्षयकारकाः
यो ऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः सहस्रनयनश्चेन्द्रो ग्रहपीडां व्यपोहतु
मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः चन्द्रोपरागसम्भूताम् अग्निः पीडां व्यपोहतु
यः कर्मसाक्षी भूतानां धर्मो महिषवाहनः यमश्चन्द्रोपरागोत्थां मम पीडां व्यपोहतु
रक्षोगणाधिपः साक्षात् प्रलयानलसंनिभः खड्गव्यग्रो ऽतिभीमश्च रक्षःपीडां व्यपोहतु
नागपाशधरो देवः साक्षान्मकरवाहनः स जलाधिपतिश् चन्द्रग्रहपीडां व्यपोहतु
प्राणरूपेण यो लोकान् पाति कृष्णमृगप्रियः वायुश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु
यो ऽसौ निधिपतिर्देवः खड्गशूलगदाधरः चन्द्रोपरागकलुषं धनदो मे व्यपोहतु
यो ऽसाविन्दुधरो देवः पिनाकी वृषवाहनः चन्द्रोपरागजां पीडां विनाशयतु शंकरः
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु वै
एवमामन्त्र्य तैः कुम्भैर् अभिषिक्तो गुणान्वितैः ऋग्यजुःसाममन्त्रैश्च शुक्लमाल्यानुलेपनैः पूजयेद्वस्त्रगोदानैर् ब्राह्मणानिष्टदेवताः
एतानेव ततो मन्त्रान् विलिखेत् करकान्वितान् वस्त्रपट्टे ऽथवा पद्मे पञ्चरत्नसमन्वितान्
यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः ततो ऽतिवाहयेद्वेलाम् उपरागानुगामिनीम्
प्राङ्मुखः पूजयित्वा तु नमस्यन्निष्टदेवताम् चन्द्रग्रहे विनिर्वृत्ते कृतगोदानमङ्गलः कृतस्नानाय तं पट्टं ब्राह्मणाय निवेदयेत्
अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् न तस्य ग्रहपीडा स्यान् न च बन्धुजनक्षयः
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत्
अधिकाः पद्मरागाः स्युः कपिलां च सुशोभनाम् प्रयच्छेच्च निशां पत्ये चन्द्रसूर्योपरागयोः
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः सर्वपापविनिर्मुक्तः शक्रलोके महीयते
किमुद्वेगाद्भुते कृत्यम् अलक्ष्मीः केन हन्यते मृतवत्साभिषेकादिकार्येषु च किमिष्यते