सा तथा कृत्तिकोपेता विशेषेण सुपूजिता तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते
अक्षया संततिस्तस्यास् तस्यां सुकृतमक्षयम् अक्षतैः पूज्यते विष्णुस् तेन साप्यक्षया स्मृता अक्षतैस्तु नराः स्नाता विष्णोर्दत्त्वा तथाक्षतान्
विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंकृतान् यथान्नभुङ्महाभागः फलमक्षय्यमश्नुते
एकामप्युक्तवत्कृत्वा तृतीयां विधिवन्नरः एतासामपि सर्वासां तृतीयानां फलं भवेत्
तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम् राजसूयफलं प्राप्य गतिमग्र्यां च विन्दति
मधुरा भारती केन व्रतेन मधुसूदन तथैव जनसौभाग्यम् अतिविद्यासु कौशलम्
अभेदश्चापि दम्पत्योस् तथा बन्धुजनेन च आयुश्च विपुलं पुंसां तन्मे कथय माधव
सम्यक्पृष्टं त्वया राजञ् छृणु सारस्वतं व्रतम् यस्य संकीर्तनादेव तुष्यतीह सरस्वती
यो यद्भक्तः पुमान्कुर्याद् एतद्व्रतमनुत्तमम् तद्वासरादौ सम्पूज्य विप्रानेतान्समाचरेत्
अथवादित्यवारेण ग्रहताराबलेन च पायसं भोजयेद्विप्रान् कृत्वा ब्राह्मणवाचनम्
शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः
यथा न देवि भगवान् ब्रह्मलोके पितामहः त्वां परित्यज्य संतिष्ठेत् तथा भव वरप्रदा
वेदाः शास्त्राणि सर्वाणि गीतनृत्यादिकं च यत् न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः
लक्ष्मीर्मेधा धरा पुष्टिर् गौरी तुष्टिः प्रभा मतिः एताभिः पाहि चाष्टाभिस् तनुभिर्मां सरस्वति
एवं सम्पूज्य गायत्रीं वीणाक्षमणिधारिणीम् शुक्लपुष्पाक्षतैर् भक्त्या सकमण्डलुपुस्तकाम् मौनव्रतेन भुञ्जीत सायं प्रातस्तु धर्मवित्
पञ्चम्यां प्रतिपक्षं च पूजयेद्ब्रह्मवासिनीम् तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम् क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति
संध्यायां च तथा मौनम् एतत्कुर्वन्समाचरेत् नान्तरा भोजनं कुर्याद् यावन्मासास्त्रयोदश
समाप्ते तु व्रते कुर्याद् भोजनं शुक्लतण्डुलैः पूर्वं सवस्त्रयुग्मं च दद्याद्विप्राय भोजनम्
देव्या वितानं घण्टां च सितनेत्रे पयस्विनीम् चन्दनं वस्त्रयुग्मं च दद्याच्च शिखरं पुनः
तथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम् वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः
अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् विद्यावानर्थसंयुक्तो रक्तकण्ठश्च जायते
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते नारी वा कुरुते या तु सापि तत्फलगामिनी
ब्रह्मलोके वसेद् राजन् यावत् कल्पायुतत्रयम्
सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत् विद्याधरपुरे सो ऽपि वसेत्कल्पायुतत्रयम्
चन्द्रादित्योपरागे तु यत्स्नानमभिधीयते तदहं श्रोतुमिच्छामि द्रव्यमन्त्रविधानवित्
यस्य राशिं समासाद्य भवेद्ग्रहणसम्प्लवः तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधविधानतः
चन्द्रोपरागं सम्प्राप्य कृत्वा ब्राह्मणवाचनम् सम्पूज्य चतुरो विप्राञ् शुक्लमाल्यानुलेपनैः
पूर्वमेवोपरागस्य समासाद्यौषधादिकम् स्थापयेच् चतुरः कुम्भान् अव्रणान्सागरानिति
गजाश्वरथ्यावल्मीकसंगमाद्ध्रदगोकुलात् राजद्वारप्रदेशाच्च मृदमानीय चाक्षिपेत्
पञ्चगव्यं च कुम्भेषु शुद्धमुक्ताफलानि च रोचनां पद्मशङ्खौ च पञ्चरत्नसमन्वितम्