विश्वकायौ विश्वमुखौ विश्वपादकरौ शिवौ प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ
एवं सम्पूज्य विधिवद् अग्रतः शिवयोः पुनः पद्मोत्पलानि रजसा नानावर्णेन कारयेत्
शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान् यावन्तः पांसवस्तत्र रजसः पतिता भुवि तावद्वर्षसहस्राणि शिवलोके महीयते
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः दत्त्वा द्विजाय करकम् उदकान्नसमन्वितम् प्रतिपक्षं चतुर्मासं यावदेतन्निवेदयेत्
ततस्तु चतुरो मासान् पूर्ववत्करकोपरि चत्वारि सक्तुपात्राणि तिलपात्राण्यतः परम्
गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम् अपक्वं दधि दुग्धं च गोशृङ्गोदकमेव च
पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः उशीरसलिलं तद्वद् यवचूर्णोदकं पुनः
तिलोदकं च संप्राश्य स्वपेन्मार्गशिरादिषु मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्
सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत्
गौरी मे प्रीयतां नित्यम् अघनाशाय मङ्गला सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये
संवत्सरान्ते लवणं गुडकुम्भं च सर्जिकाम् चन्दनं नेत्रपट्टं च सहिरण्याम्बुजेन तु
उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम् सतूलावरणां शय्यां सविश्रामां निवेदयेत् सपत्नीकाय विप्राय गौरी मे प्रीयतामिति
आर्द्रानन्दकरी नाम्ना तृतीयैषा सनातनी यामुपोष्य नरो याति शम्भोर्यत्परमं पदम्
इह लोके सदानन्दम् आप्नोति धनसम्पदः आयुरारोग्यसम्पत्त्या न कश्चिच्छोकमाप्नुयात्
नारी वा कुरुते या तु कुमारी विधवा च या सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानवित् रुद्राणीलोकमभ्येति पुनरावृत्तिदुर्लभम्
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः शक्रलोके स गन्धर्वैः पूज्यते ऽपि युगत्रयम्
आनन्ददां सकलदुःखहरां तृतीयां या स्त्री करोत्यविधवा विधवाथ वापि सा स्वे गृहे सुखशतान्यनुभूय भूयो गौरीपदं सदयिता दयिता प्रयाति
अथान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम् यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम्
वैशाखशुक्लपक्षे तु तृतीया यैरुपोषिता अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य च
सा तथा कृत्तिकोपेता विशेषेण सुपूजिता तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते
अक्षया संततिस्तस्यास् तस्यां सुकृतमक्षयम् अक्षतैः पूज्यते विष्णुस् तेन साप्यक्षया स्मृता अक्षतैस्तु नराः स्नाता विष्णोर्दत्त्वा तथाक्षतान्
विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंकृतान् यथान्नभुङ्महाभागः फलमक्षय्यमश्नुते
एकामप्युक्तवत्कृत्वा तृतीयां विधिवन्नरः एतासामपि सर्वासां तृतीयानां फलं भवेत्
तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम् राजसूयफलं प्राप्य गतिमग्र्यां च विन्दति
मधुरा भारती केन व्रतेन मधुसूदन तथैव जनसौभाग्यम् अतिविद्यासु कौशलम्
अभेदश्चापि दम्पत्योस् तथा बन्धुजनेन च आयुश्च विपुलं पुंसां तन्मे कथय माधव
सम्यक्पृष्टं त्वया राजञ् छृणु सारस्वतं व्रतम् यस्य संकीर्तनादेव तुष्यतीह सरस्वती
यो यद्भक्तः पुमान्कुर्याद् एतद्व्रतमनुत्तमम् तद्वासरादौ सम्पूज्य विप्रानेतान्समाचरेत्
अथवादित्यवारेण ग्रहताराबलेन च पायसं भोजयेद्विप्रान् कृत्वा ब्राह्मणवाचनम्