क्षीरं शाकं च दध्यन्नम् इण्डर्यो ऽशोकवर्तिकाः माघादिक्रमशो दद्याद् एतानि करकोपरि
कुमुदा माधवी गौरी रम्भा भद्रा जया शिवा उमा रतिः सती तद्वन् मङ्गला रतिलालसा
क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत् सर्वत्र पञ्चगव्येन प्राशनं समुदाहृतम् उपवासी भवेन्नित्यम् अशक्ते नक्तमिष्यते
पुनर्माघे तु सम्प्राप्ते शर्करां करकोपरि कृत्वा तु काञ्चनीं गौरीं पञ्चरत्नसमन्विताम्
हैमीमङ्गुष्ठमात्रां च साक्षसूत्रकमण्डलुम् चतुर्भुजामिन्दुयुतां सितनेत्रपटावृताम्
तद्वद्गोमिथुनं शुक्लं सुवर्णास्यं सिताम्बरम् सवस्त्रभाजनं दद्याद् भवानी प्रीयतामिति
अनेन विधिना यस्तु रसकल्याणिनीव्रतम् कुर्यात्स सर्वपापेभ्यस् तत्क्षणादेव मुच्यते
नवार्बुदसहस्रं तु न दुःखी जायते नरः सुवर्णकमलं गौरि मासि मासि ददन्नरः अग्निष्टोमसहस्रस्य यत्फलं तदवाप्नुयात्
नारी वा कुरुते या तु कुमारी वा वरानने विधवा या तथा नारी सापि तत्फलमाप्नुयात् सौभाग्यारोग्यसम्पन्ना गौरीलोके महीयते
इति पठति शृणोति श्रावयेद्यः प्रसङ्गात् कलिकलुषविमुक्तः पार्वतीलोकमेति मतिमपि च नराणां यो ददाति प्रियार्थं विबुधपतिविमाने नायकः स्यादमोघः
तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् नाम्ना च लोके विख्याताम् आर्द्रानन्दकरीमिमाम्
यदा शुक्लतृतीयायाम् आषाढर्क्षं भवेत्क्वचित् ब्रह्मर्क्षं वा मृगर्क्षं वा हस्तो मूलमथापि वा दर्भगन्धोदकैः स्नानं तदा सम्यक्समाचरेत्
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगन्धिभिः महादेवेन सहिताम् उपविष्टां महासने
वासुदेव्यै नमः पादौ शंकराय नमो हरम् जङ्घे शोकविनाशिन्यै आनन्दाय नमः प्रभो
रम्भायै पूजयेदूरू शिवाय च पिनाकिनः अदित्यै च कटिं देव्याः शूलिनः शूलपाणये
माधव्यै च तथा नाभिम् अथ शम्भोर्भवाय च स्तनावानन्दकारिण्यै शंकरस्येन्दुधारिणे
उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरम् करावुत्पलधारिण्यै रुद्राय च जगत्पते बाहू च परिरम्भिण्यै त्रिशूलाय हरस्य च
देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः स्मितं सस्मेरलीलायै विश्ववक्त्राय वै विभो
नेत्रे मदनवासिन्यै विश्वधाम्ने त्रिशूलिनः भ्रुवौ नृत्यप्रियायै तु ताण्डवेशाय शूलिनः
देव्या ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः स्वाहायै मुकुटं देव्या विभोर्गङ्गाधराय वै
विश्वकायौ विश्वमुखौ विश्वपादकरौ शिवौ प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ
एवं सम्पूज्य विधिवद् अग्रतः शिवयोः पुनः पद्मोत्पलानि रजसा नानावर्णेन कारयेत्
शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान् यावन्तः पांसवस्तत्र रजसः पतिता भुवि तावद्वर्षसहस्राणि शिवलोके महीयते
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः दत्त्वा द्विजाय करकम् उदकान्नसमन्वितम् प्रतिपक्षं चतुर्मासं यावदेतन्निवेदयेत्
ततस्तु चतुरो मासान् पूर्ववत्करकोपरि चत्वारि सक्तुपात्राणि तिलपात्राण्यतः परम्
गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम् अपक्वं दधि दुग्धं च गोशृङ्गोदकमेव च
पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः उशीरसलिलं तद्वद् यवचूर्णोदकं पुनः
तिलोदकं च संप्राश्य स्वपेन्मार्गशिरादिषु मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्
सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत्
गौरी मे प्रीयतां नित्यम् अघनाशाय मङ्गला सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये